Bhashya
बलं वाव विज्ञानाद्भूयः ।बलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभासामर्थ्यम् ।अनशनाद्गादीनि 'न वै मा प्रतिभान्ति भो' इति श्रुतेः ।शरीरेऽपि तद्देवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवानाकम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि ।यस्मादेवमन्नाद्युपयोगनिमित्तं बलम्, तस्मात्स पुरुषः यदा बली बलेन तद्वान्भवति अथोत्थाता उत्थानस्य कर्ता उत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन् उपसत्ता तेषां समीपगोऽन्तरङ्गः प्रियो भवतीत्यर्थः ।उपसीदंश्च सामीप्यं गच्छन् एकाग्रतया आचार्यस्यान्यस्य च उपदेष्टुः गुरोर्द्रष्टा भवति ।ततस्तदुक्तस्य श्रोता भवति ।तत इदमेभिरुक्तम् एवमुपपद्यत इत्युपपत्तितो मन्ता भवति ; मन्वानश्च बोद्धा भवति एवमेवेदमिति ।तत एवं निश्चित्य तदुक्तार्थस्य कर्ता अनुष्ठाता भवति विज्ञाता अनुष्ठानफलस्यानुभविता भवतीत्यर्थः ।किंच बलस्य माहात्म्यम्- बलेन वै पृथिवी तिष्ठतीत्यादि ऋज्वर्थम् ॥
In plain words
Strength is indeed greater than understanding. Strength is the mental capacity for comprehension born from nourishment. Just as a single strong creature can overpower a hundred men, when a person possesses vigor, he becomes active, serving his teachers, drawing close, hearing their words, reflecting, understanding, and finally practicing what is taught to experience its fruit.
Close to the Sanskrit
Strength indeed is greater than understanding. Strength is mental capacity for comprehension produced by food usage... Therefore, when a person is strong through strength, he becomes a riser, a doer of rising, an attendant upon elders and the teacher...