Bhashya
यदा वै सत्यं परमार्थतः विजानाति- इदं परमार्थतःसत्यमिति, ततः अनृतं विकारजातं वाचारम्भणं हित्वासर्वविकारावस्थं सदैवेकं सत्यमिति तदेव अथ वदति यद्व-दति ।ननु विकारोऽपि सत्यमेव, 'नामरूपे सत्यं ताभ्या-मयं प्राणश्छन्नः' 'प्राणा वै सत्यं तेषामेष सत्यम्' इति श्रु-त्यन्तरात् ।सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य, न तु पर-मार्थोपेक्षमुक्तम् ।किं तर्हि ? इन्द्रियविषयाविषयत्वापेक्षं सच्चत्यच्चेति सत्यमित्युक्तं तद्वारेण च परमार्थसत्यस्योपलब्धिर्वि-वक्षितेति ।'प्राणा वै सत्यं तेषामेष सत्यम्' इति च उक्तम् ।इहापि तदिष्टमेव ।इह तु प्राणविषयात्परमार्थसत्यविज्ञाना-भिमानादुत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमा-ख्यम्, तद्विज्ञापयिष्यामीति एष विशेषतो विवक्षितोऽर्थः ।नाविजानन्सत्यं वदति ; यस्त्वविजानन्वदति सोऽग्न्यादिश-ब्देनाग्न्यादीन्परमार्थसद्रूपान्मन्यमानो वदति ; न तु ते रूप-त्रयव्यतिरेकेण परमार्थतः सन्ति ।तथा तान्यपि रूपाणिसदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति ।विजा-नन्नेव सत्यं वदति ।न च तत्सत्यविज्ञानमविजिज्ञासितम-प्रार्थितं ज्ञायत इत्याह-विज्ञानं त्वेव विजिज्ञासितव्य-मिति ।यद्येवम्, विज्ञानं भगवो विजिज्ञासे इति ।एवंसत्यादीनां च उत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वंव्याख्येयम् ॥
In plain words
When a person truly recognizes reality from the absolute standpoint—knowing 'this is the ultimate truth'—then, leaving behind the falsehood of changing forms as mere words, and seeing that the sole reality is the one unchanging existence, they speak from that unshakeable ground.
Close to the Sanskrit
When indeed one clearly knows truth from the absolute standpoint, thus: 'this is absolute truth', then having abandoned falsehood and the multitude of modifications as mere verbal designations, taking all modifications as transient states and seeing the existent alone as the one truth, that very person speaks what he speaks. If the opponent says modification is also real...