The works of Ādi Śaṅkarācārya

Chāndogyopaniṣadbhāṣyam

Bhashya

Bhashya

यत्र यस्मिन्भूम्नि तत्त्वेन अन्यद्द्रष्टव्यमन्येन करणेन द्रष्टा अन्यो विभक्तो दृश्यात्प-श्यति ।तथा नान्यच्छृणोति ।नामरूपयोरेवान्तर्भावाद्द्विषय-भेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहणम् अन्येषां चउपलक्षणार्थत्वेन ।मननं तु अत्रोक्तं द्रष्टव्यं नान्यन्मनुतइति, प्रायशो मननपूर्वकत्वाद्विज्ञानस्य ।तथा नान्य-द्विजानाति ।एवंलक्षणो यः स भूमा ।किमत्र प्र-सिद्धान्यदर्शनाभावो भूम्युच्यते नान्यत्पश्यतीत्यादिना,अथ अन्यन्न पश्यति, आत्मानं पश्यतीत्येतत् ।किंचातः ?यद्यन्यदर्शनाद्यभावमात्रमित्युच्यते, तदा द्वैतसंव्यवहार-विलक्षणो भूमेत्युक्तं भवति ।अथ अन्यदर्शनविशेषप्रतिषेधेनआत्मानं पश्यतीत्युच्यते, तदैकस्मिन्नेव क्रियाकारकफलभेदो-ऽभ्युपगतो भवेत् ।यद्येवं को दोषः स्यात् ? नन्वयमेवदोषः— संसारांनिवृत्तिः ।क्रियाकारकफलभेदो हि संसारइति ।आत्मैकत्वे एव क्रियाकारकफलभेदः संसारविलक्षण इति चेत्, न, आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादि- क्रियाकारकफलभेदाभ्युपगमस्य शब्दमात्रत्वात् ।अन्यदर्श- नाद्यभावोक्तिपक्षेऽपि यत्र इति अन्यत्र पश्यति इति च विशे- षणे अनर्थके स्यातामिति चेत्—दृश्यते हि लोके यत्र शून्ये गृहेऽन्यत्र पश्यतीत्युक्ते स्तम्भादीनात्मानं च न न पश्य- तीति गम्यते; एवमिहापीति चेत्, न, तत्त्वमसीत्येकत्वोप- देशादधिकरणाधिकर्तव्यभेदानुपपत्तेः ।तथा सद्देकमेवाद्वि- तीयं सत्यमिति षष्ठे निर्धारितत्वात् ।‘अदृश्येऽनात्म्ये’ ‘न संदृशे तिष्ठति रूपमस्य’ ‘विज्ञातारमरे केन विजानी- यात्’ इत्यादिश्रुतिभ्यः स्वात्मनि दर्शनाद्यनुपपत्तिः ।यत्र इति विशेषणमनर्थकं प्राप्तमिति चेत्, न, अविद्याकृतभेदापेक्ष- त्वात्, यथा सत्यैकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सद्देकमे- वाद्वितीयमिति संख्याद्यनर्हमप्युच्यते, एवं भूम्न्येकस्मिन्नेव यत्र इति विशेषणम् ।अविद्यावस्थायामन्यदर्शनानुवादेन च भूम्नस्तदभावत्वलक्षणस्य विवक्षितत्वात् नान्यत्पश्यति इति विशेषणम् ।तस्मात्संसारव्यवहारो भूम्नि नास्तीति समुदा- यार्थः ।अथ यत्राविद्याविषये अन्योऽन्येनान्यत्पश्यतीति त- दल्पम् अविद्याकालभावीत्यर्थः ; यथा स्वप्नदृश्यं वस्तु प्राक्प्रबोधात्तत्कालभावीति, तद्वत् ।तत एव तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव ।तद्विपरीतो भूमा यस्तदमृतम् ।तच्छब्दः अमृतत्वपरः ; स तर्हि एवंलक्षणो भूमा हे भगवन् कस्मिन्प्रतिष्ठित इति उक्तवन्तं नारदं प्रत्याह सनत्कुमारः- स्वे महिम्नीति स्वे आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा ।यदि प्रतिष्ठामिच्छसि कश्चित् , यदि वा परमार्थमेव पृच्छसि, न महिम्न्यपि प्रतिष्ठित इति ब्रूमः ; अप्रतिष्ठितः अनाश्रितो भूमा कचिदपीत्यर्थः ॥

In plain words

Where nothing else is seen, nothing else heard, nothing else known—that is the infinite. What belongs to the realm of ignorance is small, mortal, and fleeting, much like a dream. But the infinite is immortal, resting in its own supreme majesty—or rather, standing utterly free and unsupported by anything at all.

Close to the Sanskrit

Where in this infinite truth one sees not another, hears not another, knows not another—such is the infinite. In the realm of ignorance, one sees another; that is finite, mortal, and destructible. The infinite is immortal, established in its own majesty, or rather, unsupported anywhere.