p. 175
सर्वे वेदा यत्रैकं भवन्ति' इति श्रुत्या वेदस्यात्माभेदेन स्वप्रकाशकतया अर्थप्रकाशनद्वारा प्रामाण्यविधीनामपिवेदैकदेशतया प्रेरणरूपत्वात् सदधिष्ठानचैतन्यात्मना कारयतीति तथा, 'एष ह्येव साधु कर्म कारयति' इति श्रुतेः ॥ॐ कारयित्र्यै नमः ॥कर्मफलप्रदा ।कृतानां कर्मणां कालान्तरभाविफलप्रदाने अदृष्टं कारणमित्यनीश्वरमीमांसकादिमतम्, तन्न ।जडानां सूक्ष्माणामदृष्टानां चेतनधर्मकर्मफलप्रदानसामर्थ्यायोगात् कृतानां कर्मणां फलावश्यंभावे 'कर्माध्यक्षः' इति श्रुतेः, 'मयैव विहितान्हितान्' इति स्मृतेश्च, 'फलमत उपपत्तेः ' इति न्यायाच्च परदेवता कर्मफलप्रदा ॥ॐ कर्मफलप्रदायैः नमः ॥एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥एकरूपा ।एकारः रूपं मन्त्रद्वितीयावयवसंज्ञापकं यस्याः सा तथा ॥ॐ एकाररूपायै नमः ॥एकाक्षरी ।एकं मुख्यम् ईश्वरोपाधित्वेन ।न क्षरति आत्मज्ञानेन विनामुक्तेः न नश्यतीति अक्षरं कूटस्थशब्दवाच्यं
In plain words
She is the very form of the letter 'e', embodying both the single syllable and the manifold letters of creation. She stands beyond the reach of pointing as 'this' or 'that', revealing herself as the pure embodiment of luminous bliss and consciousness.
Close to the Sanskrit
She who has the form of the letter 'e', who is single-syllabled, whose form consists of single and multiple letters, who cannot be pointed out as 'this' or 'that', and whose form is pure bliss and consciousness.