p. 187
चैतन्यरूपाणां जाग्रदाद्यवस्थाभिमानिनाम् अखण्डब्रह्मसाक्षात्कारवेलायाम् अभेदानुभवात्, 'तत्त्वमसि' इति श्रुतेश्च 'एकमेवाद्वितीयम्' इति विशेषितत्वाच्च, एकश्चासावीश्वरश्च एकेश्वरः तस्य भावः तदैक्यं तत् प्रददातीति तथा ।बहुषु विद्याधनवत्सु तेष्वेको विद्याधनवानित्युक्ते, तत्रत्यजननिष्ठविद्याभावे तदतिशयप्रतीतिवत् एकं च निरतिशयमणिमादिकमैश्वर्यं निःश्रेयसं प्रददातीति वा ।यद्वा एकं मानुषं सर्वोत्कृष्टं सार्वभौमत्वादिलक्षणमभ्युदयसामान्यमैश्वर्यं प्रददातीति वा तथा ॥ॐ एकैश्वर्यप्रदायिन्यै नमः ॥एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता ।एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८ ॥एकातपत्रसाम्राज्यप्रदा ।आतपात् आ समन्तात् अध्यात्माधिदैवताधिभूतानि आ शब्दार्थः ।तेभ्यो जाताः तापाः आतपाः ।तपन्ति शोषयन्तीति तपाः, आतपेभ्यः त्रायते रक्षतीति आतपत्रं सर्वसंसारदुःखोपशमात्मकमात्मज्ञानम् ।'यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि' इति भगवद्वचनात् ।अखिलदुःखनिदानाज्ञाननिवर्तकम् एकं लक्षणया अभिन्नब्रह्मविषयकमित्यर्थः ।एकं च तत् आतपत्रं च अखण्डाकारज्ञानम्, तेन जायमानं यत्साम्राज्यं सम्राजो भावः सर्वोत्तम-
In plain words
Homage to her who grants the supreme empire sheltered by a single parasol of wisdom, who is adored in silent solitude, whose divine splendor ever expands, and who rules as the sovereign mistress over every moving world.
Close to the Sanskrit
She who bestows the empire under a single parasol, she who is worshipped in solitude, she whose splendor expands, and she who is the mistress of numerous moving worlds.