The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 195

p. 195

ईक्षणसृष्टाण्डकोटिः ।अण्डानां ब्रह्माण्डानां कोटयः असंख्याताः, भूतभाविकालभेदेन बहुवचनं कोटिशब्दस्य,अनादित्वात् संसारमण्डलस्य, ईक्षणेन भाविकार्यालोचनेन सृष्टाः अण्डकोटयो यया सा तथा, 'तदैक्षत बहु स्यां प्रजायेयेति' स ईक्षांचक्रे' आत्मा वा इदमेक एवाग्र आसीत् नान्यत्किञ्चन मिषत् स ईक्षत लोकान्नु सृजा इति सइमांल्लोकानसृजत' इत्यादिश्रुतेः, बाह्यकारणमनपेक्ष्य ऊर्णनाभ्यादिदृष्टान्तप्रदर्शनेन चेतनस्याभिन्ननिमित्तोपादानत्वप्रदर्शनयुक्तेः, 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादेश्चेति भावः ।ॐ ईक्षणसृष्टाण्डकोटये नमः ॥ईश्वरवल्लभा ।ईश्वरः कामेश्वरः वल्लभः पतिः यस्याः सा तथा ।ईश्वराणां ब्रह्मविष्णुरुद्रादीनां तत्तन्निष्ठमहिमोत्कर्षरूपेण प्रीत्यतिशयविषयत्वेन अभ्यर्हितेत्यर्थो वा ।ॐ ईश्वरवल्लभायै नमः ॥ईडिता ।ईड स्तुताविति धातुपाठात् स्तुतिभिः विषयीकृता, वेदान्तैरिति शेषः, 'एष नित्यो महिमा ब्राह्मणस्य' इत्यादिश्रुतेः ।ॐ ईडितायै नमः ॥ईश्वरार्धाङ्गशरीरा ।ईश्वरस्य सच्चिदानन्दात्मकस्य शिवस्य अर्धं च तत् अङ्गं च अर्धाङ्गम् ।आनन्दस्वरूपता शरीरं

In plain words

Homage to the Divine Mother, who with a single glance brings countless universes into being, who is the beloved consort of the supreme Lord, lauded by the highest wisdom of the Vedas, and whose form shares half of Shiva's very body.

Close to the Sanskrit

Salutations to her who by a mere glance created millions of cosmic eggs, who is the beloved of Ishvara, who is praised by the Vedas, and whose body constitutes half of Ishvara's form.