The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 197

p. 197

रोतीति वा, तदीयभार्यात्वेन नितरां तद्वश्येति यावत् ॥ॐ ईश्वरप्रेरणकर्यै नमः ॥ईशताण्डवसाक्षिणी ।ईशस्य तत्पदवाच्यार्थस्य ताण्डवं नर्तनवदप्रयत्नसंपाद्य लीलामात्रमित्यर्थः, जगत्सर्जनादिरूपा क्रिया चलनरूपकर्मत्वसामान्यात्, तस्य साक्षिणी असंसर्गप्रकाशरूपिणीत्यर्थः, 'असंगो न हि सज्जते' इति श्रुतेः ।अथवा, ईशताण्डवस्य परमेश्वरनृत्यनाट्याभिव्यञ्जितचतुःषष्टिकलोपदेशस्य साक्षिणी ।तदुक्तम्- नर्तनाद्धि परेशस्य चतुःषष्टिकलाजनिः' इति प्रदोषस्तोत्रे ईशताण्डवनर्तनवर्णनमतिस्फुटमिति नेह लिख्यते ॥ॐ ईशताण्डवसाक्षिण्यै नमः ॥ईश्वरोत्संगनिलया ।ईश्वरस्य स्वभर्तुः उत्सङ्गः ऊरू तौ निलयः यस्याः सा तथा ॥ॐ ईश्वरोत्संगनिलयायै नमः ॥ईतिबाधाविनाशिनी ।ईतिबाधा दैवाद्युपद्रवः, क्षुद्रजन्तुपीडा वा, तां विनाशयतीति तथा ॥ॐ ईतिबाधाविनाशिन्यै नमः ॥ईहाविरहिता चेशशक्तिरीषत्स्मितानना ।लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३ ॥

In plain words

Untouched by worldly striving, she is the living power of the Lord, her face graced with a gentle smile. Embodied in the sacred syllable 'la', she is Lalita, served by both Lakshmi and Sarasvati.

Close to the Sanskrit

She who is without desire, and is the power of the lord, with a face displaying a slight smile; who has the form of the syllable 'la', Lalita, served by Lakshmi and Sarasvati.