The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 200

p. 200

ललन्तिकालसत्फाला ।ललन्तिकया परितः मुक्ताफलखचितनवरत्नमध्यया ललाटमध्यदेशभूषया, इदमुपलक्षणंललाटपट्टादीनाम्, लसत् फालं यस्याः सा तथा ॥ॐ ललन्तिकालसत्फलायै नमः ।ललाटनयनार्चिता ।ललाटे नयनं येषां ते, अत्र ललाटशब्देन भ्रूमध्यं लक्ष्यते, नयनशब्देन ज्ञानमपि, चोर्ध्वदृष्टिभिः खेचरीमुद्रया विलीनचित्तैः असिवरुणयोर्मध्यदेशाभिधानाविमुक्तकृतपरमेश्वराराधनपरपुरुषप्राप्यत्वाभिधायकात्रिप्रश्नोत्तरजाबालश्रुतिगत-याज्ञवल्क्योत्तरवाक्यनिर्दिष्टभूमिकाजयसिद्धिमत्पुरुषैः अर्चिता साक्षात्कृतेत्यर्थः ।अथवा, तृतीयनेत्रवता शिवेन तत्स्वरूपरुद्रैर्वा पूजितेत्यर्थः ।ॐ ललाटनयनार्चितायै नमः ॥लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका ।लक्ष्यार्थी लक्षणागम्या लब्धकामा लतातनुः ॥ १५ ॥लक्षणोज्ज्वलदिव्याङ्गी ।दीप्यसे प्रकाशत इति दिव्यं लक्षणैः स्वरूपतटस्थनामकैः उज्ज्वलं शोभितं शुद्धम् अङ्गं स्वरूपं विग्रहो वा ।घृताकाठिन्यन्यायेन 'तदात्मानं स्वयमकुरुत' इति श्रुतेः सच्चिदानन्दघनीभूतजीवात्मको विग्रहो

In plain words

She whose form radiates with transcendent grace, sovereign of countless worlds, the ultimate truth pointed to by all teachings, known through inner implication, utterly fulfilled, and moving with the delicate grace of a flowering vine.

Close to the Sanskrit

She whose form shines with auspicious marks, mistress of millions of universes, the ultimate implied target, approachable through secondary indication, whose desires are fulfilled, and who possesses a delicate vine-like body.