p. 205
ह्रींकाररूपा ।ह्रींकारः रूप्यते निरूप्यते निर्देश्यत इति रूपं मन्त्रपञ्चमावयवः यस्याः सा तथा ।ॐ ह्रींकाररूपायै नमः ॥ह्रींकारनिलया ।ह्रीमक्षरं निलयः गृहवदवच्छेदकं यस्याः सा तथा ।स्वीयवाचकत्वारोपितवाच्यतावच्छेदकधर्मावच्छिन्नतादिसंपादनेन गृहवर्तिपुरुषवत् व्यावृत्तस्वरूपेण ज्ञापकं भवति ।अन्यथा, नाम्नो वाच्यार्थे प्रवृत्त्ययोगादिति भावः ।ॐ ह्रींकारनिलयायै नमः ॥ह्रींपदप्रिया ।पद्यते गम्यते ज्ञायते अनेनेति पदम्, पद्यते गम्यते प्राप्यत इति वा पदम्, ह्रीकारस्य मन्त्रावयवतया तद्देवताप्रकाशकत्वेन तस्यां शक्तत्वात्- 'शक्तं पदम्' इति तल्लक्षणत्वात् तथा प्रथमं व्याख्यानम् ।हकाररेफेकारानुस्वाराणां वर्णानां समष्टिस्वरूपेण समुदायात्मकत्वात् 'वर्णसमुदायः पदम्' इत्यपि पदलक्षणवत्वमस्य घटते ।पुरश्चर्यावतां स्वदेवतासाक्षात्कारद्वारा सकलपुरुषार्थप्रापकत्वात् द्वितीयव्याख्यानं तथा कृतम् ।तस्मिन् प्रिया प्रीतिमतीत्यर्थः ॥ॐ ह्रींपदप्रियायै नमः ॥ह्रींकारबीजा ।ह्रींकार एव बीजं स्ववाचकमन्त्रभाग:, 'ज्ञापकं देवतानां यत् बीजमक्षरमुच्यते' इति वचनात् ह्रीं-
In plain words
She whose very form is the sacred syllable hrīṃ, who dwells within the sound hrīṃ as her eternal home, who delights in this supreme word, and whose seed-source is hrīṃ itself—to her we offer our reverent prostrations.
Close to the Sanskrit
She who has the form of hrīṃkāra. The syllable hrīṃkāra is that whose form is the fifth limb of the mantra. Obeisance to her who is of the form of hrīṃkāra. She whose abode is hrīṃkāra. The syllable hrīṃ is the abode, serving as a delimiter like a house for her... She who is fond of the word hrīṃ... She who has hrīṃkāra as her seed...