p. 217
सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी । ।सर्वानवद्या ।सर्वैर्ज्ञानैश्वर्यादिगुणैरनवद्या |अवद्यानामविद्यया हीना जडप्रकृति मिथ्या बाध्यमानत्वात् ।तद्विलक्षणासत्यज्ञानानन्दरूपत्वादनवद्या ।सर्वेषा सर्वाभीष्टप्रापकत्वेनस्तुत्या वा । ।ॐ सर्वानवद्यायै नम ॥सर्वाङ्गसुन्दरी ।सर्वाणि च तानि अङ्गानि च अवयवाशिर पाण्यादय , तेष्वन्यूनातिरिक्तभाववत्त्वात् यथासामुद्रिकलक्षण तद्वत्त्वन सर्वाङ्गसुन्दरी ।अथवा, सर्वेषामङ्गेषुशरीरेषु ब्रह्मस्वरूपतया अत्यन्तप्रेमविषयत्वेन सुन्दरपदार्थवदविनाभाववाञ्छाविषयत्वात् तथा ॥ॐ सर्वाङ्गसुन्दर्यैनम ॥सर्वसाक्षिणी ।सर्वेषा जडाना कार्याणा स्फूत्याधायक-त्वेन प्रकाशकर्त्री तथा ।सर्वं साक्षादीक्षत इति वा तथा ॥ॐ सर्वसाक्षिण्यै नम ॥सर्वात्मिका ।सर्वेषामात्मस्वरूपत्वात् ।'यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।यच्चास्य सतता भावस्तस्मादात्मेतिगीयत' इति वचनातथा ॥ॐ सर्वात्मिकायै नम | |
In plain words
She who is entirely without flaw, perfectly formed in every limb, the witness of all existence, the very Self of everything, the bestower of all joy, and the enchantress of the universe.
Close to the Sanskrit
Completely flawless, beautifully limbed in all parts, witness of all, consisting of the self of all, giver of all happiness, bewildering all.