The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 220

p. 220

सर्वभूषणभूषिता ।सर्वात्मकत्वेन ये ये प्राणिनः यानियानि भूषणालंकारभोजनादीनि भोग्यवस्तून्यात्मार्थं संपादयन्ति तेषां सर्वेषां प्रत्यक्तया तैः सर्वैर्भूषिता उपकृतेत्यर्थः ;आत्मनस्तु कामाय सर्वे प्रियं भवति' इति श्रुतेः ।अथवा,सर्वदेवात्मकत्वेन सर्वभक्तजनस्य स्वस्वेष्टदेवताप्रीत्यर्थ भूषणभूषितत्वेन तथा ।अथवा, सर्वैर्भक्तजनैः तत्तदवयवेषुभूषणैरारोपिता ; स्वस्याः महाराज्ञीत्वेन असंगोदासीनस्वभावत्वादिति भावः ।यद्वा, सर्वदेशकाललोकेषु भूषणैःतव तत्र भवैः उच्चावचैर्भूषणैरारोपिता ; हस्त्यश्वादिदेहोपाधिका सती तत्तदीयालंकारादिषु जुगुप्सारहितेत्यर्थः ।भूषयन्ति सर्वोत्तमत्वेन प्रतिपादयन्तीति भूषणानि वेदान्तमहावाक्यानि ; सर्वैः समस्तैः गतिसामान्यात् एकतात्पर्येणभूषिता लक्षणया पर्यवसिता समन्विता वेत्यर्थः ॥सर्वभूषणभूषितायै नमः ।ककारार्था कालही कामेशी कामितार्थदा ।कामसंजीवनी कल्या कठिनस्तनमण्डला ॥: ककारार्था ।'कं ब्रह्म' इति श्रुत्या ककारस्य ब्रह्मार्थकत्वेन तद्व्यतिरिक्तस्यातदर्थस्य बाधितत्वात् ॥ॐ ककाराथायै नमः ॥

In plain words

Adorned with every ornament, she whose essence is the sacred letter ka conquers time itself. She is Kāmeśī, who grants every desired boon, revives love, is entirely auspicious, and possesses firm, youthful breasts.

Close to the Sanskrit

Adorned with all ornaments; having the letter ka as her meaning, the destroyer of time, the lady of desire, the grantor of desired objects, the reviver of desire, the auspicious one, and she who has firm breasts.