p. 224
-न्तर्भावात्, रसशब्दस्य मधुरादौ रूढत्वात् तेषामनिर्वचनीयत्वेऽपि अनुभवगोचरतायामिक्ष्वादिसारद्रव्य पदार्थनिष्ठत्वोपलब्धेः तत्संबन्धवशात् परंपरया द्रवद्रव्यवृत्तिस्यन्दनरूपक्रियाश्रयत्वमुपचर्यते ।तथा च कटाक्षस्यन्दिनी करुणापरिपाल्यताबुद्धिरूपा यस्याः सा तथा ॥ॐ कटाक्षस्यन्दिकरुणायै नमः ॥कपालिप्राणनायिका ।कपालमस्य अस्तीति कपाली आनन्दभैरवः, तम्य प्राणनायिका प्राणस्येत्युपलक्षणं पञ्चानाम ।नायिका अधिष्ठानत्वेन प्रेरका ।न प्राणेन नापानेन मर्त्योजीवति कश्चन ।इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ'इति श्रुतेः ।तस्यापि हृदयान्तर्वर्तिपरमेश्वररूपेति यावत् ।प्राणवल्लभेति वा ; प्रियेति भावः ।ॐ कपालिप्राणनायिकायै नमः ॥कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः ।कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥कारुण्यविग्रहा ।कारुण्यं पूर्वोक्तकृपा, करुणस्य भावः,तत् विग्रहः मूर्तिर्यस्याः सेति तथा ।कारुण्यस्यान्तःकरणपरिणामबुद्धिरूपत्वेन नेत्रान्तवीक्षासस्मितभाषादिनानुमीयमानत्वेऽपि साक्षात्तज्जन्यमनोवाञ्छितवरप्रदाना-
In plain words
Her compassionate glances flow like nectar. She is the vital queen of the skull-bearer Śiva, the very embodiment of mercy. Radiant and beloved, her beauty outshines red japa blossoms; her speech is artful, her neck is marked like a conch, and her hands surpass the softness of tender leaves.
Close to the Sanskrit
She whose compassion flows through glances, the life-mistress of Kapalin, the embodiment of compassion, the beloved, she whose luster outshines rows of japa flowers, she of artful speech, conch-necked, and whose hands conquer tender sprouts.