The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 223

p. 223

मणिकरभोरुः ।करभ इव ऊरू यस्याः सा तथा ।बन्धादाकनिष्ठं करस्य करभो बहिः' इति प्रमाणादिति भावः ॥ॐ करभोरवे नमः ॥कलानाथमुखी ।कलाः चतुःषष्टिकलाः नाथयति प्रेरयतीति कलानाथः, 'निश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदः' इत्यादिश्रुतेः, 'शास्त्रयोनित्वात्' इति न्यायाच्च ।तादृशमुखं वदनं यस्याः सेति तथा ।कलानाथश्चन्द्र इवमुखं यस्याः सेति वा ॥ॐ कलानाथमुख्यै नमः ॥कचजिताम्बुदा ।कचेन केशभारेण कबरेण वेत्यर्थः ।जिताः अधरीकृताः अम्बुदा मेघा यया सा तथा ;मेघमण्डलापेक्षया ऊर्ध्वगामिशिरोरुहभारा व्योमकेशीति भावः ।अथवा, केशवृत्ति नीलरूपेण सादृश्यासहत्वेन धिक्कृताःमेघाः यया सा तथा ॥ॐ कचजिताम्बुदायै नमः ॥कटाक्षस्यन्दिकरुणा ।यद्यपि दीनेषु परिपाल्यता बुद्धिदेवानां महतां करुणेत्युच्यते, तथापि तस्याः आन्तरत्वेनअज्ञायमानतया तेषु भक्त्यतिशयेन प्रवृत्त्यर्थ सेवादौ तद्वत्ताज्ञानस्यावश्यकफलप्रदानादिहेतुतया निश्चयेन तदनुरूपकसात्त्विकवीक्षणस्मेर संभाषणादिसत्त्वं तत्रावश्यं भवतीति का -र्यसत्त्वप्रसञ्जितकारणसत्त्ववत्त्वात्, करुणायाः नवरसेष्व-

In plain words

She whose limbs curve with the grace of an elephant's trunk, whose face outshines the moon and commands every art, whose dark tresses shame the rain-clouds, and whose very glances overflow with living grace.

Close to the Sanskrit

She whose thighs resemble gem-like trunks; whose face is the lord of arts/moon; whose dark hair conquers clouds; and whose compassion flows through sidelong glances.