p. 234
तबुद्धसच्चिदानन्दस्वरूपेत्यर्थः ॥ॐ हंसमन्त्रार्थरूपिण्यैनमः ॥हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी ।हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥हानोपादाननिर्मुक्ता ।अनिष्टसाधने हानं परित्यागक्रिया ।इष्टसाधने उपादानं स्वीकारक्रिया ।परिजिहीर्षाआदित्सा वा ।'अप्राणो ह्यमनाः शुभ्रः96 अकायम्' 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति बहुश्रुतेःअशरीरस्य ब्रह्मणोऽन्तःकरणादिधर्माणामसंभवात् ताभ्यांनिर्मुक्ता निःसङ्गेत्यर्थः, 'विमुक्तश्च विमुच्यते ' इति श्रुतेः ॥ॐ हानोपादाननिर्मुक्तायै नमः ॥हर्षिणी ।' एष ह्येवानन्दयाति' इति श्रुतेः हर्षयतिसंतोषयतीति तथा ॥ॐ हर्षिण्यै नमः ॥हरिसोदरी ।हरिणा कृष्णेन समानं एकं उदरम् उत् ईषत्अरं भेदकं अवच्छेदकमित्यर्थः ।उचैररं कूटो वा अत्यल्पमि -ध्याभूतमायोपाधिकचैतन्यावस्थाविशेषरूपा ।' अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।जीवभूतां महाबाहोययेदं धार्यते जगत्' 'देवात्मशक्तिं स्वगुणैर्निगूढाम्' इत्या-
In plain words
She who stands completely free of all grasping and rejecting, who delights the universe as the sister of Hari, praised by celestial voices, untouched by gain or loss—to her we bow.
Close to the Sanskrit
Free from rejection and acceptance, joyful, sister of Hari, praised by Haha and Huhu and others, and devoid of loss and growth - salutation to her.