The works of Ādi Śaṅkarācārya

Lalitātriśatībhāṣyam

p. 233

p. 233

हार्दसंतमसापहा ।हृदयावच्छिन्नः हार्दः, 'यो वेद निहितं गुहायाम्' इति श्रुतेः ।अस्मिन् यत्संतमसं आवारकत्वात् 'तम आसीत्' इति श्रुत्या च आत्मविषयकं तदाश्रयमज्ञानम् अनर्थकरम् अव्याकृताकाशमित्युच्यते, महावाक्यश्रवणजन्यधीवृत्तिप्रतिफलिताकारेणापहन्तीति सा तथा ।नाहं ब्रह्मास्मि संसारी ब्रह्म नास्ति न भाति च - इत्यज्ञानस्यसोऽहं ब्रह्मास्मि सच्चिदानन्दलक्षणः इति एकाकारवृत्तिबाध्यत्वनियमेन बाधाधिष्ठानम् 'नेह नाना' इति श्रुतिसिद्धब्रह्मरूपेति यावत् ॥ॐ हार्दसंतमसापहायै नमः ॥हल्लीसलास्यसंतुष्टा ।हल्लीसैः चित्रदण्डैः कुमारिकाभिःएकतालादियुक्तगीतपूर्वकं यल्लास्यं नर्तनं तस्मिन् संतुष्टाप्रीतिमतीत्यर्थः ।'नारीणां मण्डली नृत्यं बुधा हल्लीसकंविदुः' इति हारावलीकोशात् मण्डलाकार नृत्य संतुष्टेत्यर्थः ॥ॐ हल्लीसलास्यसंतुष्टायै नमः ॥हंसमन्त्रार्थरूपिणी ।हंसैः परमहंसैः उपास्यो यो मन्त्रःप्रणवः तस्य शास्त्रवोधिततत्त्वार्थरूपिणी ।वाच्यलक्ष्यार्थस्वरूपेण ज्ञायमानेत्यर्थः ।अथवा, हंसमन्त्रः अजपा ।हंकारसकारौ शोधिततत्त्वंपदार्थों, हुंकारस्य परोक्षवाचिनः सकारस्य तादृशस्य च भागत्यागलक्षणया निष्प्रपञ्चनित्यशुद्धमु-

In plain words

She who dispels the deep darkness of the heart is the very ground where all illusion dissolves through the single, unbroken wave of awakening. She delights in the joyous rhythm of the sacred circle dance, and she is the living embodiment of the supreme breath-mantra.

Close to the Sanskrit

Dispeller of the heart's darkness, she is the substratum of sublation through the rule of sublation by a single-formed mental state. Pleased with the hallīsa dance, she embodies the meaning of the hamsa mantra.