Bhashya
ये पुनस्तद्विपरीतज्ञानयुक्ता वानप्रस्था सन्यासिनश्च,तप श्रद्धे हि तप स्वाश्रमविहित कर्म, श्रद्धा हिरण्यगर्भादि-विषया विद्या, ते तप श्रद्धे उपवसन्ति सेवन्तेऽरण्ये वर्तमानासन्तः ।शान्ता उपरतकरणग्रामा ।विद्वास गृहस्थाश्चज्ञानप्रधाना इत्यर्थ ।भैक्षचर्या चरन्त परिग्रहाभावादुपवसन्त्यरण्ये इति सबन्ध ।सूर्यद्वारेण सूर्योपलक्षितेनोत्तरेण पथा ते विरजा विरजस , क्षीणपुण्यपापकर्माण सन्तइत्यर्थ ।प्रयान्ति प्रकर्षेण यान्ति यत्र यस्मिन्सत्यलोकादौअमृत स पुरुष प्रथमजो हिरण्यगर्भ हि अव्ययात्माअव्ययस्वभावो यावत्ससारस्थायी ।एतदन्तास्तु ससारगतयोऽपरविद्यागम्या ।नन्वेत मोक्षमिच्छन्ति केचित् ।न, ‘इहैव सर्वे प्रविलीयन्ति कामा ’ ‘ते सर्वग स-र्वत प्राप्य धीरा युक्तात्मान सर्वमेवाविशन्ति ’ इत्यादिश्रुतिभ्य , अप्रकरणाच्च ।अपरविद्याप्रकरणे हि प्रवृत्ते नह्यकस्मान्मोक्षप्रसङ्गोऽस्ति ।विरजस्त्व त्वापेक्षिकम् ।समस्तमपरविद्याकार्य साध्यसाधनलक्षण क्रियाकारकफलभेदभिन्नद्वैतम् एतावदेव यद्धिरण्यगर्भप्राप्यवसानम् ।तथा च मचितान्धर्मधर्मनिर्वर्तितानित्येतत् ।ब्राह्मण , ब्राह्मणस्यैव विशेषतोऽधिकार सर्वत्यागेन ब्रह्मविद्यायामिति ब्राह्मण ग्रहणम् ।परीक्ष्य लोकान्किं कुर्यादित्युच्यते- निर्वेदम् , निष्पूर्वा विदिरत्र वैराग्यार्थे , वैराग्यम् आयात् कुर्यादित्येतत् ।स वैराग्यप्रकार प्रदर्श्यते- इह संसारे नास्ति कश्चिदपि अकृत पदार्थ ।सर्व एव हि लोका कर्मचिता कर्म कृतत्वाच्चानित्या ।न नित्य किंचिदस्तीत्यभिप्राय ।सर्व तु कर्मानित्यस्यैव साधनम् ।यस्माच्चतुर्विधमेव हि सर्व कर्म कार्यम्-उत्पाद्यमाप्य विकार्य सस्कार्य वा ।नात पर कर्मणो विषयोऽस्ति ।अह च नित्येनामृतेनाभयेन कूटस्थेनाचलेन ध्रुवेणार्थेनार्थी, न तद्विपरीतेन ।अत किं कृतेन कर्मणा आयासबहुलेनानर्थसाधनेन इत्येव निर्विण्णोऽभय शिवम्- कृत नित्य पद यत् , तद्विज्ञानार्थ विशेषेणाधिगमार्थ स निर्वि- ण्णो ब्राह्मण गुरुमेव आचार्य शमदमादिसपन्नम् अभिग च्छेत् ।शास्त्रज्ञोऽपि स्वातन्त्र्येण ब्रह्मज्ञानान्वेषण न कुर्यादित्येतद्गुरुमेवेत्यवधारणफलम् ।समित्पाणि समिद्भार गृहीतहस्त श्रोत्रियम् अध्ययनश्रुतार्थसपन्न ब्रह्मनिष्ठ हित्वा सर्वकर्माणि केवलेऽद्वये ब्रह्मणि निष्ठा यस्य सोऽय ब्रह्म- निष्ठ , जपनिष्ठस्तपोनिष्ठ इति यद्वत् ।न हि कर्मिणो ब्रह्म-निष्ठता सम्भवति, कर्मात्मज्ञानयोर्विरोधात् ।स त गुरु विधिबदुपसन्न प्रसाद्य पृच्छेदक्षर पुरुष सत्यम ॥
In plain words
Recognizing that all action-born worlds are impermanent, the wise seeker abandons worldly rites and approaches a qualified teacher—one deeply versed in scripture and established in Brahman—to humbly ask of the imperishable and true Reality.
Close to the Sanskrit
Those forest hermits and renunciates who are endowed with contrary knowledge, and householders who are intent on lower knowledge... approach the teacher with fuel in hand, a śrotriya established in Brahman, and ask him concerning the imperishable, true Puruṣa.