The works of Ādi Śaṅkarācārya

Sanatsujātīyam

p. 303

p. 303

व्याप्य याति, तस्मात् अहुतं चाग्निहोत्रम् अनेन आत्मज्ञानेन आहुतम् आभिमुख्येन हुतं भवति, सर्वमग्निहोत्रादिकर्मफलमनेनैव संपादितं भवतीत्यर्थः ।यस्मादुभौ लोकौ विद्यया व्याप्य याति, यस्मादहुतं चाग्निहोत्रं हुतं भवति, तस्मात् मा ते तव ब्राह्मी ब्रह्मविषया विद्या लघुतां लघुत्वं मर्त्यभावं कर्मवत् आदधीत न करोति, अपि तु प्रज्ञानं तमसः पारं परमात्मानमात्मत्वेन संपादयति यदा ब्रह्मविद्याव्यापृतस्य परमात्मानमात्मत्वेनावगच्छतः प्रज्ञानम् इति नाम स्यात् ब्रह्मेति नाम भवतीत्यर्थः ।तथा च श्रुतिः—‘प्रज्ञानं ब्रह्म’ इति ।तत्प्रज्ञानं ब्रह्म धीराः धीमन्तो लभन्ते ।यत्प्रज्ञानं ब्रह्म धीराः लभन्ते, तं योगिन एव पश्यन्ति ॥

In plain words

Traversing both worlds completely through wisdom, the unoffered sacrifice is thus rendered fully offered by this very knowledge of the Self... 'Prajñāna is Brahman'—this supreme consciousness is attained by the wise, and it is seen by yogis alone.

Close to the Sanskrit

Traversing both worlds thoroughly with knowledge, therefore the unoffered agnihotra becomes offered through this self-knowledge... That consciousness is Brahman, which the wise attain. Whom the yogis alone perceive.