The works of Ādi Śaṅkarācārya

Taittirīyopaniṣadbhāṣyam

Bhashya

Bhashya

एक एवात्मा ज्ञेयत्वेन ज्ञातृत्वेन च उभयथा भवतीतिचेत् , न, युगपदनशत्वात् ।न हि निरवयवस्य युगपज्ज्ञेय-ज्ञातृत्वोपपत्ति ।आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेश-नर्थक्यम् ।न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेश अर्थवान् ।तस्मात् ज्ञातृत्वे सति आनन्त्यानुपपत्ति ।सन्मात्रत्व चानुपपन्न ज्ञानकर्तृत्वादिविशेषवत्त्वे सति, सन्मात्रत्व च सत्यम्, 'तत्सत्यम्' इति श्रुत्यन्तरात् ।तस्मात्सत्यानन्तशब्दाभ्या सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्द ।'ज्ञान ब्रह्म' इति कर्तृत्वादिकारकनिवृत्त्यर्थ मृदादिवदचिद्रूपतानिवृत्त्यर्थ च प्रयुज्यते ।'ज्ञान ब्रह्म' इति वचनात्प्राप्तमन्तवत्त्वम्, लौकिकस्य ज्ञानस्य अन्तवत्त्वदर्शनात् ।अत तन्निवृत्त्यर्थमाह—अनन्तमिति ।सत्यादीनामनन्ततादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य च ब्रह्मण उत्पलादिवदप्रसिद्धत्वात् 'मृगतृष्णाम्भसि स्नात खपुष्पकृतशेखर ।एष वन्ध्यासुतो याति शशशृङ्गधनुर्धर इतिवत् शून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेत्, न, लक्षणार्थत्वात् ।विशेषणत्वेऽपि सत्यादीना लक्षणार्थप्राधान्यमित्यवोचाम ।शून्य हि लक्ष्य अनर्थक लक्षणवचनम् ।अत लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति ।विशेषणार्थत्वेऽपि च सत्यादीना स्वार्थापरित्याग एव ।शून्यार्थत्वे हि सत्यादिशब्दाना विशेष्यनियन्तृत्वानुपपत्ति ।सत्यान्यथैरर्थवत्त्वे तु तद्विपरीतधर्मवद्भ्यो विशेष्येभ्यो ब्रह्मणो विशेष्यस्यवभास्याश्च त विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभि परिकल्प्यन्ते ।यत्तु ब्रह्मणो विज्ञानम्, तत् सवितृप्रकाशवत् अग्न्युष्णत्ववच्च ब्रह्मस्वरूपव्यतिरिक्त स्वरूपमेव तत् ।न तत्कारणान्तरसव्यपेक्षम्, नित्यस्वरूपत्वात्, सर्वभावाना च तेनाविभक्तदेशकालत्वात् कालाकाशादिकारणत्वात् निरतिशयसूक्ष्मत्वाच्च ।न तस्यान्यदविज्ञेय सूक्ष्म व्यवहित विप्रकृष्ट भूत भवद्भविष्यद्वा अस्ति ।तस्मात्सर्वज्ञ तद्ब्रह्म ।मन्त्रवर्णाच्च 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षु स शृणोत्यकर्ण ।स वेत्ति वेद्य न च तस्यास्ति वेत्ता तमाहुरग्र्य पुरुष महान्तम्' इति ।'न हि विज्ञातुर्विज्ञातर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति' इत्यादिश्रुतेश्च ।विज्ञातृस्वरूपाव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मण ज्ञानस्वरूपत्वेऽपि नित्यत्वप्रसिद्धि ।अतो नैव धात्वर्थस्तत्, अक्रियारूपत्वात् ।अत एव च न ज्ञानकर्तृ, तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्रह्म ।तथापि तदाभासवाचकेन बुद्धिधर्मविशेषेण ज्ञानशब्देन तलक्ष्यते, न तु उच्यते, शब्दप्रवृत्तिहेतुजात्यादिधर्मरहितत्वात् ।तथा सत्यशब्देनापि ।सर्वविशेषप्रत्यस्तमितस्वरूपत्वाद्ब्रह्मण बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते ‘सत्य ब्रह्म’ इति, न तु सत्यश- ब्दवाच्य ब्रह्म ।एव सत्यादिशब्दा इतरेतरसन्निधानादन्यो- न्यनियम्यनियामका सन्त सत्यादिशब्दवाच्यात् निवर्तका ब्रह्मण , लक्षणाार्थाश्च भवन्तीति ।अत सिद्धम् ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ ‘अनिरुक्तेऽनिलयने’ इति च अवाच्यत्वम्, नीलोत्पलवद्वाक्यार्थत्व च ब्रह्मण ॥

In plain words

If you argue that the one Self takes on the dual roles of both knower and known, we answer no: an indivisible reality cannot hold both states at once. If the Self were an object of knowledge like a pot, instruction about it would be entirely pointless. Therefore, if the Self were an agent of knowing, its infinity would be destroyed. Pure existence would equally be impossible if it possessed active agency. Because scripture couples the word 'knowledge' with 'truth' and 'infinity' as qualifying attributes, the term is understood to denote pure, abstract being rather than an active agent.

Close to the Sanskrit

If one says the self alone becomes both as knowable and as knower in two ways, no, because of partlessness. Indeed, the simultaneous knower-and-knowable state is not tenable for that which has no parts. And if the self were knowable like a pot, instruction on knowledge would be purposeless. Therefore, if there is agency, infinity is untenable. Pure existence is also untenable if there is possession of agency and other particulars, and pure existence is true, from another śruti passage: 'That is true.' Therefore, because the word knowledge is used as an attribute together with the words true and infinite, the word knowledge is derived in the sense of abstract state.