Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 14
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
उन्मत्तमिव संत्यज्य यात्यकाण्डे शरीरकम्
2
Keep
विषयाशीविषासङ्गपरिजर्जरचेतसाम् ।
अप्रौढात्मविवेकानामायुरायासकारणम्
3
Keep
ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे ।
भावाभावसमाश्वासमायुस्तेषां सुखायते
4
Keep
वयं परिमिताकारपरिनिष्ठितनिश्चयाः ।
संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः
5
Keep
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते
6
Keep
पेलवं शरदीवाभ्रमस्नेह इव दीपकः ।
तरङ्गक इवालोलं गतमेवोपलक्ष्यते
7
Keep
तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् ।
ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ
8
Keep
अविश्रान्तमनाः शून्यमायुराततमीहते ।
दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा
9
Keep
संसारसंसृतावस्यां फेनोऽस्मिन्सर्गसागरे ।
कायवल्लयाम्भसो ब्रह्मञ्जीवितं मे न रोचते
10
Keep
प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते ।
पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते
11
Keep
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य मननेन न जीवति
12
Keep
जातास्त एव जगति जन्तवः साधुजीविताः ।
ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः
13
Keep
भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः
14
Keep
रूपमायुर्मनो बुद्धिरहंकारस्तथेहितम् ।
भारो भारधरस्येव सर्वं दुःखाय दुर्धियः
15
Keep
अविश्रान्तमनापूर्णमापदां परमास्पदम् ।
नीडं रोगविहङ्गानामायुरायासनं दृढम्
16
Keep
प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् ।
आखुनेव जरच्छुभ्रं कालेन विनिहन्यते
17
Keep
शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः ।
रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः
18
Keep
प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवासिभिः ।
दुःखैरावृश्च्यते क्रूरैर्घुणैरिव जरद्द्रुमः
19
Keep
नूनं निगरणायाशु घनगर्धमनारतम् ।
आखुर्मार्जारकेणेव मरणेनावलोक्यते
20
Keep
गन्धादिगुणगर्भिण्या शून्ययाऽशक्तिवेश्यया ।
अन्नं महाशनेनेव जरया परिजीर्यते
21
Keep
दिनैः कतिपयैरेव परिज्ञाय गतादरम् ।
दुर्जनः सुजनेनेव यौवनेनावमुच्यते
22
Keep
विनाशसुहृदा नित्यं जरामरणबन्धुना ।
रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते
23
Keep
स्थिरतया सुखभासितया तया
सततमुज्ज्ञितमुत्तमफल्गु च ।
जगति नास्ति तथा गुणवर्जितं
मरणभाजनमायुरिदं यथा
Previous
←
Sarga 13
Next
Sarga 15
→