Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 15
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते ।
मिथ्यामयेन भीतोऽस्मि दुरहंकारशत्रुणा
2
Keep
अहंकारवशादेव दोषकोशकदर्थताम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः
3
Keep
अहंकारवशादापदहंकाराहुराधयः ।
अहंकारवशादीहा त्वहंकारो ममामयः
4
Keep
तमहंकारमाश्रित्य परमं चिरवैरिणम् ।
न भुजे न पिबाम्यम्भः किमु भोगान्भुजे मुने
5
Keep
संसाररजनी दीर्घा माया मनसि मोहिनी ।
ततोऽहंकारदोषेण किरातेनेव वागुरा
6
Keep
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहंकारात्प्रसूतानि तान्यगात्खदिरा इव
7
Keep
शमेन्दुसैंहिकेयास्यं गुणपद्महिमाशनिम् ।
साम्यमेघशरत्कालमहंकारं त्यजाम्यहम्
8
Keep
नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।
शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा
9
Keep
अहंकारवशाद्यद्यन्मया भुक्तं हुतं कृतम् ।
सर्वं तत्तदवस्त्वेव वस्त्वहंकाररिक्तता
10
Keep
अहमित्यस्ति चेद्ब्रह्मन्नहमापदि दुःखितः ।
नास्ति चेत्सुखितस्तस्मादनहंकारिता वरम्
11
Keep
अहंकारं परित्यज्य मुने शान्तमनस्तया ।
अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः
12
Keep
ब्रह्मन्यावदहंकारवारिदः परिजृम्भते ।
तावद्विकासमायाति तृष्णाकुटजमञ्जरी
13
Keep
अहंकारघने शान्ते तृष्णा नवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यात्यतिसत्वरम्
14
Keep
अहंकारमहाविन्ध्ये मनोमत्तमहागजः ।
विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः
15
Keep
इह देहमहारण्ये घनाहंकारकेसरी ।
योऽयमुल्लसति स्फारस्तेनेदं जगदाततम्
16
Keep
तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहंकारोग्रखिङ्गेन कण्ठे मुक्तावली कृता
17
Keep
पुत्रमित्रकलत्रादितन्त्रमन्त्रविवर्जितम् ।
प्रसारितमनेनेह मुनेऽहंकारवैरिणा
18
Keep
प्रमार्जितेऽहमित्यस्मिन्पदे स्वयमपि द्रुतम् ।
प्रमार्जिता भवन्त्येते सर्व एव दुराधयः
19
Keep
अहमित्यम्बुदे शान्ते शनैश्च शमशातिनी ।
मनोगगनसंमोहमिहिका क्वापि गच्छति
20
Keep
निरहंकारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः ।
यत्किंचिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि
21
Keep
सर्वापदां निलयमध्रुवमन्तरस्थ-
मुन्मुक्तमुत्तमगुणेन न संश्रयामि ।
यत्नादहंकृतिपदं परितोऽतिदुःखं
शेषेण मां समनुशाधि महानुभाव
Previous
←
Sarga 14
Next
Sarga 16
→