Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 24
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अस्योड्डामरलीलस्य दूरास्तसकलापदः ।
संसारे राजपुत्रस्य कालस्याकलितौजसः
2
Keep
अस्यैवाचरतो दीनैर्मुग्धैर्भूतमृगब्रजैः ।
आखेटकं जर्जरिते जगज्जङ्गलजालके
3
Keep
एकदेशोल्लसच्चारुवडवानलपङ्कजा ।
क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः
4
Keep
कटुतिक्ताम्लभूताद्यैः सदधिक्षीरसागरैः ।
तैरेव तैः पर्युषितैर्जगद्भिः कल्ववर्तनम्
5
Keep
चण्डी चतुरसंचारा सर्वमातृगणान्विता ।
संसारवनविन्यस्ता व्याघ्री भूतौघघातिनी
6
Keep
ज्ञध्वी करतले ज्ञथ्वी पानपात्री रसान्विता ।
कमलोत्पलकह्लारलोलजालकमालिता
7
Keep
विरावी विकटास्फोटो नृसिंहो भुजपञ्जरे ।
सटाविकटपीनांसः कृतः क्रीडाशकुन्तकः
8
Keep
अलाबुवीणामधुरः शरद्व्योमलसच्छविः ।
देवः किल महाकालो लीलाकोकिलबालकः
9
Keep
अजस्रस्फूर्जिताकारो वान्तदुःखशरावलिः ।
अभावनामकोदण्डः परिस्फुरति सर्वतः
10
Keep
अनुत्तमस्त्वधिकविलासपण्डितो
भ्रमच्चलन्परिविलसन्विदारयन् ।
जरज्जगज्जनितविलोलमर्कटः
परिस्फुरद्वपुरिह काल ईहते
Previous
←
Sarga 23
Next
Sarga 25
→