Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 25
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अत्रैव दुर्विलासानां चूडमणिरिहापरः ।
करोत्यत्तीति लोकेऽस्मिन्दैवं कालश्च कथ्यते
2
Keep
क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः ।
नान्यदालक्ष्यते रूपं न कर्म न समीहितम्
3
Keep
तेनेयमखिला भूतसंततिः परिपेलवा ।
तापेन हिममालेव नीता विधुरतां भृशम्
4
Keep
यदिदं दृश्यते किंचिज्जगदाभोगि मण्डलम् ।
तत्तस्य नर्तनागारमिहासावतिनृत्यति
5
Keep
तृतीयं च कृतान्तेति नाम बिभ्रत्सुदारुणम् ।
कापालिकवपुर्मत्तं दैवं जगति नृत्यति
6
Keep
नृत्यतो हि कृतान्तस्य नितान्तमिव रागिणः ।
नित्यं नियतिकान्तायां मुने परमकामिता
7
Keep
शेषः शशिकलाशुभ्रो गङ्गावाहश्च तौ त्रिधा ।
उपवीते अवीते च उभौ संसारवक्षसि
8
Keep
चन्द्रार्कमण्डले हेमकटकौ करमूलयोः ।
लीलासरसिजं हस्ते ब्रह्मन्ब्रह्माण्डकर्णिका
9
Keep
ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् ।
एकार्णवपयोधौ तमेकमम्बरमम्बरम्
10
Keep
एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी ।
अनस्तमितसंरम्भमारम्भैः परिनृत्यति
11
Keep
तस्या नर्तनलोलाया जगन्मण्डपकोटरे ।
अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे
12
Keep
चारुभूषणमङ्गेषु देवलोकान्तरावली ।
आपातालं नभोलम्बं कबरीमण्डलं बृहत्
13
Keep
नरकाली च मञ्जीरमाला कलकलोज्ज्वला ।
प्रोता दुष्कृतसूत्रेण पातालचरणे स्थिता
14
Keep
कस्तूरिकातिलककं क्रियासंख्योपकल्पितम् ।
चित्रितं चित्रगुप्तेन यमे वदनपट्टके
15
Keep
कालास्यं समुपादाय कल्पान्तेषु किलाकुला ।
नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम्
16
Keep
पश्चात्प्रालम्बविभ्रान्तकौमारभृतबर्हिभिः ।
नेत्रत्रयवृहद्रन्ध्रभूरिभाङ्कारभीषणैः
17
Keep
लम्बलोलजटाचन्द्रविकीर्णहरमूर्धभिः ।
उच्चरच्चारुमन्दारगौरीकबरचामरैः
18
Keep
उत्ताण्डवाचलाकारभैरवोदरतुम्बकैः ।
रणत्सशतरन्ध्रेन्द्रदेहभिक्षाकपालकैः
19
Keep
शुष्कशारीरखट्वाङ्गभरैरापूरिताम्बरम् ।
भीषयत्यात्मनात्मानं सर्वसंहारकारिणी
20
Keep
विश्वरूपशिरश्चक्रचारुपुष्करमालया ।
ताण्डवेषु विवल्गन्त्या महाकल्पेषु राजते
21
Keep
प्रमत्तपुष्करावर्तडमरोड्डामरारवैः ।
तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः
22
Keep
नृत्यतोऽन्तः कृतान्तस्य चन्द्रमण्डलभासिनः ।
तारकाचन्द्रिकाचारुव्योमपिच्छावचूलिनः
23
Keep
एकस्मिञ्छ्रवणे दीप्ता हिमवानस्थिमुद्रिका ।
अपरे च महामेरुः कान्ता काञ्चनकर्णिका
24
Keep
अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले ।
लोकालोकाचलश्रेणी सर्वतः कटिमेखला
25
Keep
इतश्चेतश्च गच्छन्ती विद्युद्वलयकर्णिका ।
अनिलान्दोलिता भाति नीरदांशुकपट्टिका
26
Keep
मुसलैः पट्टिशैः प्रासैः शूलैस्तोमरमुद्गरैः ।
तीक्ष्णैः क्षीणजगद्वान्तकृतान्तैरिव संभृतैः
27
Keep
संसारबन्धनादीर्घे पाशे कालकरच्युते ।
शेषभोगमहासूत्रप्रोते मालास्य शोभते
28
Keep
जीवोल्लसन्मकरिकारत्नतेजोभिरुज्ज्वला ।
सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम्
29
Keep
व्यवहारमहावर्ता सुखदुःखपरम्परा ।
रजःपूर्णतमःश्यामा रोमाली तस्य राजते
30
Keep
एवंप्रायः स कल्पान्ते कृतान्तस्ताण्डवोद्भवाम् ।
उपसंहृत्य नृत्येहां सृष्ट्वा सह महेश्वरम्
31
Keep
पुनर्लास्यमयीं नृत्यलीलां सर्गस्वरूपिणीम् ।
तनोतीमां जराशोकदुःखाभिभवभूषिताम्
32
Keep
भूयः करोति भुवनानि वनान्तराणि
लोकान्तराणि जनजालककल्पनां च ।
आचारचारुकलनामचलां चलां च
पङ्काद्यथार्भकजनो रचनामखिन्नः
Previous
←
Sarga 24
Next
Sarga 26
→