Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 29
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
इति मे दोषदावाग्निदग्धे महति चेतसि ।
प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरःस्विव
2
Keep
प्रत्यहं याति कटुतामेषा संसारसंस्थितिः ।
कालपाकवशाल्लोला रसा निम्बलता यथा
3
Keep
वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् ।
करञ्जकर्कशे राजन्प्रत्यहं जनचेतसि
4
Keep
भज्यते भुवि मर्यादा झटित्येव दिनं प्रति ।
शुष्केव माषशिम्बीका टङ्कारकरवं विना
5
Keep
राज्येभ्यो भोगपूगेभ्यश्चिन्तावद्भ्यो मुनीश्वर ।
निरस्तचिन्ताकलिता वरमेकान्तशीलता
6
Keep
नानन्दाय ममोद्यानं न सुखाय मम स्त्रियः ।
न हर्षाय ममार्थाशा शाम्यामि मनसा सह
7
Keep
अनित्यश्चासुखो लोकस्तृष्णा तात दुरुद्वहा ।
चापलोपहतं चेतः कथं यास्यामि निर्वृतिम्
8
Keep
नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।
यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम्
9
Keep
किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः ।
अहंकारवशादेतत्स एव गलितो मम
10
Keep
जन्मावलिवरत्रायामिन्द्रियग्रन्थयो दृढाः ।
ये बद्धास्तद्विमोक्षार्थं यतन्ते ये त उत्तमाः
11
Keep
मथितं मानिनीलोकैर्मनो मकरकेतुना ।
कोमलं खुरनिष्पेषैः कमलं करिणा यथा
12
Keep
अद्य चेत्स्वच्छया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।
भूयश्चित्तचिकित्सायास्तत्किलावसरः कुतः
13
Keep
विषं विषयवैषम्यं न विषं विषमुच्यते ।
जन्मान्तरघ्ना विषया एकदेहहरं विषम्
14
Keep
न सुखानि न दुःखानि न मित्राणि न बान्धवाः ।
न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः
15
Keep
तद्भवामि यथा ब्रह्मन्पूर्वापरविदां वर ।
वीतशोकभयायासो ज्ञस्तथोपदिशाशु मे
16
Keep
वासनाजालवलिता दुःखकण्टकसंकुला ।
निपातोत्पातबहुला भीमरूपाऽज्ञताटवी
17
Keep
क्रकचाग्रविनिष्पेषं सोढुं शक्नोम्यहं मुने ।
संसारव्यवहारोत्थं नाशाविषयवैशसम्
18
Keep
इदं नास्तीदमस्तीति व्यवहाराञ्जनभ्रमः ।
धुनोतीदं चलं चेतो रजोराशिमिवानिलः
19
Keep
तृष्णातन्तुलवप्रोतं जीवसंचयमौक्तिकम् ।
चिदच्छाङ्गतया नित्यं विकसच्चित्तनायकम्
20
Keep
संसारहारमरतिः कालव्यालविभूषणम् ।
त्रोटयाम्यहमक्रूरं वागुरामिव केसरी
21
Keep
नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे ।
केन विज्ञानदीपेन भिन्धि तत्त्वविदांवर
22
Keep
विद्यन्त एवेह न ते महात्मन्
दुराधयो न क्षयमाप्नुवन्ति ।
ये सङ्गमेनोत्तममानसानां
निशातमांसीव निशाकरेण
23
Keep
आयुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं
भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः ।
लोलायौवनलालनाजलरयश्चेत्याकलय्य द्रुतं
मुद्रैवाद्य दृढार्पिता ननु मया चित्ते चिरं शान्तये
Previous
←
Sarga 28
Next
Sarga 30
→