Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 30
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
एवमभ्युत्थितानर्थशतसंकटकोटरे ।
जगदालोक्य निर्मग्नं मनो मननकर्दमे
2
Keep
मनो मे भ्रमतीवेदं संभ्रमश्चोपजायते ।
गात्राणि परिकम्पन्ते पत्राणीव जरत्तरोः
3
Keep
अनाप्तोत्तमसंतोषधैर्योत्सङ्गाकुला मतिः ।
शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा
4
Keep
विकल्पेभ्यो लुठन्त्येताश्चान्तःकरणवृत्तयः ।
श्वभ्रेभ्य इव सारङ्गास्तुच्छालम्बविडम्बिताः
5
Keep
अविवेकास्पदा भ्रष्टाः कष्टे रूढा न सत्पदे ।
अन्धकूपमिवापन्ना वराकाश्चक्षुरादयः
6
Keep
नावस्थितिमुपायाति न च याति यथेप्सितम् ।
चिन्ता जीवेश्वरायत्ता कान्तेव प्रियसद्मनि
7
Keep
जर्जरीकृत्य वस्तूनि त्यजन्ती विभ्रती तथा ।
मार्गशीर्षान्तवल्लीव धृतिर्विधुरतां गता
8
Keep
अपहस्तितसर्वार्थमनवस्थितिरास्थिता ।
गृहीत्वोत्सृज्य चात्मानं भवस्थितिरवस्थिता
9
Keep
चलिताचलितेनान्तरवष्टम्भेन मे मतिः ।
दरिद्रा छिन्नवृक्षस्य मूलेनेव विडम्ब्यते
10
Keep
चेतश्चञ्चलमाभोगि भुवनान्तर्विहारि च ।
न संभ्रमं जहातीदं स्वविमानमिवामराः
11
Keep
अतोऽतुच्छमनायासमनुपाधि गतभ्रमम् ।
किं तत्स्थितिपदं साधो यत्र शोको न विद्यते
12
Keep
सर्वारम्भसमारूढाः सुजना जनकादयः ।
व्यवहारपरा एव कथमुत्तमतां गताः
13
Keep
लग्नेनापि किलाङ्गेषु बहुधा बहुमानद ।
कथं संसारपङ्केन पुमानिह न लिप्यते
14
Keep
कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।
महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः
15
Keep
लोभयन्तो भयायैव विषयाभोगभोगिनः ।
भङ्गुराकारविभवाः कथमायान्ति भव्यताम्
16
Keep
मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।
परं प्रसादमायाति शेमुषीसरसी कथम्
17
Keep
संसार एव निवहे जनो व्यवहरन्नपि ।
न बन्धं कथमाप्नोति पद्मपत्रे पयो यथा
18
Keep
आत्मवत्तृणवच्चेदं सकलं कलयञ्जनः ।
कथमुत्तमतामेति मनोमन्मथमस्पृशन्
19
Keep
कं महापुरुषं पारमुपायातं महोदधेः ।
आचारेणानुसंस्मृत्य जनो याति न दुःखिताम्
20
Keep
किं तस्यादुचितं श्रेयः किं तत्स्यादुचितं फलम् ।
वर्तितव्यं च संसारे कथं नामासमञ्जसे
21
Keep
तत्त्वं कथय मे किंचिद्येनास्य जगतः प्रभो ।
वेद्मि पूर्वापरं धातुश्चेष्टितस्यानवस्थितेः
22
Keep
हृदयाकाशशशिनश्चेतसो मलमार्जनम् ।
यथा मे जायते ब्रह्मंस्तथा निर्विघ्नमाचर
23
Keep
किमिह स्यादुपादेयं किंवा हेयमथेतरत् ।
कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत्
24
Keep
केन पावनमन्त्रेण दुःसंसृतिविषूचिका ।
शाम्यतीयमनायासमायासशतकारिणी
25
Keep
कथं शीतलतामन्तरानन्दतरुमञ्जरीम् ।
पूर्णचन्द्र इवाक्षीणां भृशमासादयाम्यहम्
26
Keep
प्राप्यान्तः पूर्णतां पूर्णो न शोचामि यथा पुनः ।
सन्तो भवन्तस्तत्त्वज्ञास्तथेहोपदिशन्तु माम्
27
Keep
अनुत्तमानन्दपदप्रधान-
विश्रान्तिरिक्तं सततं महात्मन् ।
कदर्थयन्तीह भृशं विकल्पाः
श्वानो वने देहमिवाल्पजीवम्
Previous
←
Sarga 29
Next
Sarga 31
→