Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 3
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
जीवन्मुक्तस्थितिं व्रह्मन्कृत्वा राघवमादितः ।
क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा
2
Keep
श्रीवाल्मीकिरुवाच ।
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये साधो विस्मरणं वरम्
3
Keep
दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते ।
कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः
4
Keep
स चेह संभवत्येव तदर्थमिदमाततम् ।
शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा
5
Keep
जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते ।
वर्णो व्योम्न इवाखेदाद्विचारेणामुनाऽनघ
6
Keep
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः
7
Keep
अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह ।
भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः
8
Keep
अशेषेण परित्यागो वासनानां य उत्तमः ।
मोक्षं इत्युच्यते ब्रह्मन्स एव विमलक्रमः
9
Keep
क्षीणायां वासनायां तु चेतो गलति सत्वरम् ।
क्षीणायां शीतसंतत्यां ब्रह्मन्हिमकणो यथा
10
Keep
अयं वासनया देहो ध्रियते भूतपञ्जरः ।
तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा
11
Keep
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी
12
Keep
अज्ञानसुघनाकारा घनाहंकारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः
13
Keep
पुनर्जन्माङ्कुरं त्यक्त्वा स्थिता संभृष्टबीजवत् ।
देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते
14
Keep
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः
15
Keep
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः
16
Keep
जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः ।
तत्तेऽहं शृणु वक्ष्याभि जरामरणशान्तये
17
Keep
भरद्वाज महाबुद्धे रामक्रममिमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा
18
Keep
विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्यनयद्गेहे लीलाभिरकुतोभयः
19
Keep
अथ गच्छति काले तु. पालयत्यवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम्
20
Keep
तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः ।
रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः
21
Keep
राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः ।
हंसः पद्माविव नवौ जग्राह नखकेसरौ
22
Keep
तीर्थानि देवसद्मानि वनान्यायतनानि च ।
द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम्
23
Keep
तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि ।
न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः
24
Keep
इति संप्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम्
25
Keep
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः
26
Keep
वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः ।
स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह
27
Keep
अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः ।
निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः
28
Keep
निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वादितः ।
पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः
29
Keep
ग्रामीणललनालोलहस्तपद्मापनोदितैः ।
लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः
30
Keep
आवर्जयन्विप्रगणान्परिशृण्वन्प्रजाशिषः ।
आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान्
31
Keep
अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह
32
Keep
नदीतीराणि पुण्यानि वनान्यायतनानि च ।
जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम्
33
Keep
मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रूं च चन्द्रभागामिरावतीम्
34
Keep
वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि
35
Keep
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा । ।
वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा
36
Keep
मानसं च क्रमसरस्तथैवोत्तरमानसम् ।
वडवावदनं चैव तीर्थवृन्दं स सादरम्
37
Keep
अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा । ।
सरांसि सरितश्चैव तथा नदह्रदावलीम्
38
Keep
स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा ।
स्थानानि च चतुःषष्टिं हरेरथ हरस्य च
39
Keep
नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्ध्यमन्दरकुञ्जांश्च कुलशैलस्थलानि च
40
Keep
राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च ।
देवानां ब्राह्मणानां च पावनानाश्रमाञ्छुभान्
41
Keep
भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान्
42
Keep
अमरकिन्नरमानवमानितः
समवलोक्य महीमखिलामिमाम् ।
उपययौ स्वगृहं रघुनन्दनो
विहृतदिक् शिवलोकमिवेश्वरः
Previous
←
Sarga 2
Next
Sarga 4
→