Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 4
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 1 — Vairāgya
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
श्रीवाल्मीकिरुवाच ।
रामः पुष्पाञ्जलिव्रातैर्विकीर्णः पुरवासिभिः ।
प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा
2
Keep
प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् ।
ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः
4
Keep
सुहृद्भिर्भ्रातृभिश्चैव पित्रा द्विजगणेन च ।
मुहुरालिङ्गिताचारो राघवो न ममौ मुदा । । ।
तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः ।
जुघूर्णुर्मधुरैराशा मृदुवंशस्तनैरिव । । ।
5
Keep
बभूवाथ दिनान्यष्टौ रामागमन उत्सवः ।
सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः
6
Keep
उवास स सुखं गेहे ततः प्रभृति राघवः ।
वर्णयन्विविधाकारान्देशाचारानितस्ततः
7
Keep
प्रातरुत्थाय रामोऽसौ कृत्वा संध्यां यथाविधि । ।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा
8
Keep
कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह ।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः
9
Keep
जगाम पित्रानुज्ञातो महत्या सेनयावृतः ।
वराहमहिषाकीर्णं वनमाखेटकेच्छया
10
Keep
तत आगत्य सदने कृत्वा स्नानादिकं क्रमम् ।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम्
11
Keep
एवंप्रायदिनाचारो भ्रातृभ्यां सह राघवः ।
आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे
12
Keep
नृपतिसंव्यवहारमनोज्ञया
सुजनचेतसि चन्द्रिकयानया ।
परिनिनाय दिनानि स चेष्टया
स्तुतसुधारसपेशलयाऽनघ
Previous
←
Sarga 3
Next
Sarga 5
→