Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 3
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 2 — Mumukṣuvyavahāra
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
पूर्वमुक्तं भगवता यज्ज्ञानं पद्मजन्मना ।
सर्गादौ लोकशान्त्यर्थं तदिदं कथयाम्यहम्
2
Keep
कथयिष्यसि विस्तीर्णा भगवन्मोक्षसंहिताम् ।
इमं तावत्क्षणं जातं संशयं मे निवारय
3
Keep
पिता शुकस्य सर्वज्ञो गुरुर्व्यासो महामतिः ।
विदेहमुक्तो न कथं कथं मुक्तः सुतोऽस्य सः
4
Keep
परमार्कप्रकाशान्तस्त्रिजगत्त्रसरेणवः ।
उत्पत्योत्पत्य लीना ये न संख्यामुपयान्ति ते
5
Keep
वर्तमानाश्च याः सन्ति त्रैलोक्यगणकोटयः ।
शक्यन्ते ताश्च संख्यातुं नैव काश्चन केनचित्
6
Keep
भविष्यन्ति पराम्भोधौ जन्तसर्गतरङ्गकाः ।
तांश्च वै परिसंख्यातुं सा कथैव न विद्यते
7
Keep
या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः ।
तासां विचारणा युक्ता वर्तमानास्तु का इव
8
Keep
तिर्यक्पुरुषदेवादेर्यो नाम स विनश्यति ।
यस्मिन्नेव प्रदेशेऽसौ तदैवेदं प्रपश्यति
9
Keep
आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्त्रयम् ।
व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्यजः
10
Keep
एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः ।
भूतानां यां जगन्त्याशामुदितानि पृथक्पृथक्
11
Keep
संकल्पनिर्माणमिव मनोराज्यविलासवत् ।
इन्द्रजालामाल इव कथार्थप्रतिभासवत्
12
Keep
दुर्वातभूकम्प इव त्रस्तबालपिशाचवत् ।
मुक्तालीवामले व्योम्नि नौस्पन्दतरुयानवत्
13
Keep
स्वप्नसंवित्तिषुरवत्स्मृतिजातखपुष्पवत् ।
जगत्संसरणं स्वान्तर्मृतोऽनुभवति स्वयम्
14
Keep
तत्रातिपरिणामेन तदेव घनतां गतम् ।
इहलोकोऽयमित्येव जीवाकाशे विजृम्भते
15
Keep
पुनस्तत्रैव जग्नेद्वामरणाद्यनुभूतिमान् ।
परं लोकं कल्पयति मृतस्तत्र तथा पुनः
16
Keep
तदन्तरन्ये पुरुषास्तेवामन्तस्तथेतरे ।
संसार इति भान्तीमे कदलीदलपीठवत्
17
Keep
न पृम्ब्यादिमहाभूतगणा न च जगत्क्रमाः ।
मृतानां सन्ति तत्रापि तथाप्येषां जगद्भमाः
18
Keep
अविद्यैव ह्यनन्तेयं नानाप्रसरशालिनी ।
जडानां सरिदादीर्घा तरत्सर्गतरङ्गिणी
19
Keep
परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः ।
भूयोभूयोऽनुवर्तन्ते त एवान्ये च भूरिशः
20
Keep
सर्वतः सदृशाः केचित्कुलक्रममनोगुणेः ।
केचिदर्धेन सदृशाः केचिच्चातिविलक्षणाः
21
Keep
इमं व्यासङ्ग तत्र द्वात्रिंशं संस्मराम्यहम् ।
यथासंभवविज्ञानदृशा संलश्यमानया
22
Keep
द्वादशाल्पधियस्तत्र कुलाकारेहितैः समाः ।
दश सर्वे समाकाराः शिष्टाः कुलविलक्षणाः
23
Keep
अद्यपयन्ये भविष्यन्ति व्यासवाल्मीकयस्तथा ।
भृग्वङ्गिरःपुलस्त्याश्च तथैवाप्यन्यथैव च
24
Keep
नराः सुरर्षिदेवानां गणाः संभूय भूरिशः ।
उत्पद्यन्ते विलीयन्ते कदाचिच्च पृथक्पृथक्
25
Keep
ब्राह्मी द्वासप्ततिस्त्रैता आसीदस्ति भविष्यति ।
स एवान्यश्च लोकाश्च त्वं चाहं चेति वेदयहम्
26
Keep
क्रमेणास्य मुनेरित्थं व्यासस्याद्भुतकर्मणः ।
संलक्ष्यतेऽवतारोऽयं दशमो दीर्घदर्शिनः
27
Keep
अभूम व्यासवाल्मीकियुक्ता वयमनेकशः ।
अभूम वयमेवेमे बहुशश्च पृथक्पृथक्
28
Keep
अभूम् वयमेवेमे सदृशा इतरे विदः ।
अभूम वयमेवेमे नानाकारा समाशयाऽ
29
Keep
भाव्यमद्याप्यनेनेह ननु वाराष्टकं पुनः ।
भूयोऽपि भारतं नाम सेतिहासं करिष्यति
30
Keep
कृत्वा वेदविभागं च नीत्वानेन कुलप्रथाम् ।
ब्रह्मत्वं च तथा कृत्वा भाव्यं वैदेहमोक्षणम्
31
Keep
वीतशोकभयः शान्तनिर्वाणो गतकल्पनः ।
जीवन्मुक्तो जितमना व्यासोऽयमिति वर्णितः
32
Keep
वित्तक्तधुवयःकर्मविद्याविज्ञानचेष्टितैः ।
समानि सन्ति भूतानि कदाचिन्नतु तानि तु
33
Keep
क्वचित्सर्गशतैस्तानि भवन्ति न भवन्ति वा ।
कदाचिदपि मायेयमित्थमन्तविवर्जिता
34
Keep
यच्छतीयं विपर्यासं भूरिभूतपरम्परा ।
बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः
35
Keep
तेनैव संनिवेशेन तथान्येन पुनःपुनः ।
सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः
36
Keep
आश्वस्तान्तःकरणः
शान्तविकल्पः स्वरूपसारमयः ।
परमशमामृततृप्त-
स्तिष्ठति विद्वान्निरावरणः
Previous
←
Sarga 2
Next
Sarga 4
→