Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 4
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 2 — Mumukṣuvyavahāra
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
सौम्याम्बुत्वे तरङ्गत्वे सलिलस्याम्बुता यथा ।
समैवाब्धौ तथाऽदेहसदेहमुनिमुक्तता
2
Keep
सदेहा वास्त्वदेहा वा मुक्तता विषये न च ।
अनास्वादितभोगस्य कुतो भोज्यानुभूतयः
3
Keep
जीवन्मुक्त मुनिश्रेष्ठं केवलं हि पदार्थवत् ।
पश्यामः पुरतो नास्य पुनर्विघ्नोऽन्तराशयम्
4
Keep
सदेहादेहमुक्तानां भेदः को बोधरूपिणाम् ।
यदेवाम्बुतरङ्गत्वे सौम्यत्वेऽपि तदेव तत्
5
Keep
न मनागपि भेदोऽस्ति सदेहादेहमुक्तयोः ।
सस्पन्दोऽप्यथवाऽस्पन्दो वायुरेव यथानिलः
6
Keep
सदेहा वा विदेहा वा मुक्तता न प्रमास्पदम् ।
अस्माकमपि तस्यास्ति स्वैकतास्त्यविभागिनी
7
Keep
तस्मात्प्रकृतमेवेदं शृणु श्रवणभूषणम् ।
मयोपदिश्यमानं त्वं ज्ञानमज्ञान्ध्यनाशनम्
8
Keep
सर्वमेवेह हि सदा संसारे रघुनन्दन ।
सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते
9
Keep
इह हीन्दोरिवोदेति शीतलाह्लादनं हृदि ।
परिस्पन्दफलप्राप्तौ पौरुषादेव नान्यतः
10
Keep
पौरुषं स्पन्दफलवद्दृष्टं प्रत्यक्षतो नयत् ।
कल्पितं मोहितैर्मन्दैर्दैवं किंचिन्न विद्यते
11
Keep
साधूपदिष्टमार्गेण यन्मनोङ्गविचेष्टितम् ।
तत्पौरुषं तत्सफलमन्यदुन्मत्तचेष्टितम्
12
Keep
यो यमर्थं प्रार्थयते तदर्थं चेहते क्रमात् ।
अवश्यं स तमाप्नोति न चेदर्धान्निवर्तते
13
Keep
पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दराम् ।
कश्चित्प्राणिविशेषो हि शक्रतां समुपागतः
14
Keep
पौरुषेणैव यत्नेन सहसाम्भोरुहास्पदम् ।
कश्चिदेव चिदुल्लासो ब्रह्मतामधितिष्ठति
15
Keep
सारेण पुरुषार्थेन स्वेनैव गरुडध्वजः ।
कश्चिदेव पुमानेव पुरुषोत्तमतां गतः
16
Keep
पौरुषेणैव यत्नेन ललनावलिताकृतिः ।
शरीरी कश्चिदेवेह गतश्चन्द्रार्धचूडताम्
17
Keep
प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् ।
प्राक्तनोऽद्यतनेनाशु पुरुषार्थेन जीयते
18
Keep
यत्नवद्भिर्दृढाभ्यासैः प्रज्ञोत्साहसमन्वितैः ।
मेरवोऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा
19
Keep
शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् ।
अभिमतफलभरसिद्ध्यै भवति हि सैवान्यथा त्वनर्थाय
Previous
←
Sarga 3
Next
Sarga 5
→