Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 107
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
राजोवाच ।
बहुनात्र किमुक्तेन सोत्सवावर्जिताशयः ।
तदाप्रभृति तत्राहं संपन्नः पुष्टपुल्कसः
2
Keep
सप्तरात्रोत्सवस्यान्ते क्रमान्मासाष्टके गते ।
पुष्पिता सास्य संपन्ना स्थिता गर्भवती ततः
3
Keep
प्रसूता दुःखदां कन्यां विपद्दुःखक्रियामिव ।
सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी
4
Keep
पुनः प्रसूता सा वर्षैस्त्रिभिः पुत्रमशोभनम् ।
अनर्थमिव दुर्बुद्धिराशापाशविधायकम्
5
Keep
पुनः सुतां दुहितरं पुनरप्यर्भकं ततः ।
कलत्रवानहं जातो वने जरठपुल्कसः
6
Keep
तया सह समास्तत्र मया बह्व्षोऽतिवाहिताः ।
नारके चिन्तया सार्धं ब्रह्मघ्नेनेव यातनाः
7
Keep
शीतवातातपक्लेशविवशेन वनान्तरे ।
चिरं विलुलितं वृद्धकच्छपेनेव पल्वले
8
Keep
कलत्रचिन्ताह्रतया धिया संदह्यमानया ।
दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव
9
Keep
क्षौमानेकसमाक्षीणपटे चेण्डकधारिणा ।
काष्ठभारो वने व्यूढो यो मूर्तमिव दुष्कृतम्
10
Keep
यौकाकीर्णजरत्क्लिन्नगन्धिकौपीनवाससा ।
आश्वस्य धवलीकानां तले नीता घनाः समाः
11
Keep
कलत्रापूरणोत्केन जर्जरेण हिमानिलैः ।
हेमन्ते दर्दुरेणेव विलीनं वनकुक्षिषु
12
Keep
नानाकलहकल्लोलतापप्रसरविद्रुताः ।
बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः
13
Keep
यामिन्यो विपिने क्लिन्ने वराहामिषभोजनाः ।
शिलातलकुटीकोशे नीता जलदविक्लवाः
14
Keep
काले क्षयं गते रोहे कालाभ्रघनतां गते ।
असौहार्देन बन्धूनां कलहैश्चापि संततैः
49
Keep
सर्वत्र जातशङ्केन कलाभिमुखरार्भकैः ।
मया कृपणचित्तेन नीताः परगृहे समाः
16
Keep
चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः ।
मुखं जर्जरतां यातमिन्दू राहुरदैरिव
17
Keep
चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः ।
नारकाहृतविक्रीता नारक्यो रशना इव
18
Keep
हिमवत्कन्दरोद्गीर्णाश्चण्डा हेमन्तवीचयः ।
शिशिरे शीकरासारतुषारनिचयाश्चिरम्
19
Keep
अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः ।
जराजरठमूढेन मूलानि क्षीणभूरुहाम्
20
Keep
सुकृतानामिवैकेन समुत्खातानि भूरिशः ।
शरावकेष्वटव्यां च पललं पक्वमादरात्
21
Keep
अस्पृष्टेन जनैर्भुक्तं कुकलत्रवता मया ।
गृहीततेजःक्षतये बहुवक्रविकारिणा
22
Keep
मार्गाविकमिवात्मीयं विक्रीतं पण्यमन्यतः ।
प्राण्यङ्गवपुषस्तस्य प्रोत्कृत्त्योत्कृत्त्य पेशलः
23
Keep
आयसंपरि विक्रीता विन्ध्यपक्कणभूमिषु ।
जन्मान्तरसहस्रोत्थं स्वपापमिव वृद्धये
24
Keep
अविकीर्णमसत्कीर्णं चण्डालारामभूमिषु ।
दृष्टः कुद्दालको दृष्ट्या संध्यास्नेहविमुक्तया
25
Keep
रौरवापतितेनेव तत्कालस्निग्धतां गतः ।
विन्ध्यकन्दरगुल्मानां बन्धुत्वमिव गच्छता
26
Keep
पुलिन्दवपुषा यत्र युक्तयोगैः समर्पिताः ।
तर्पिता लगुडाघातजितकौलेयरंहसा
27
Keep
पुत्रदाराः कदन्नेन ग्रामकान्धोचितेन च ।
धारासाररणत्पत्रशुष्कतालतले निशाः
28
Keep
नीता रणितदन्तेन सार्धं विपिनवानरैः ।
रोमभिः कोटिमुद्रोद्यैः शीतेनाध्युषितस्य मे
29
Keep
वर्षासु मुक्ताकणवद्धृता वानलविन्दवः ।
अजाजीमूतखण्डार्थं क्षुत्क्षुण्णक्षीणकुक्षिणा
30
Keep
कलत्रेण सहाटव्यां कृतः कलह आकुलः ।
वने रणितदन्तेन शीतकेकरचक्षुषा
31
Keep
मषीमलिनगात्रेण वेतालस्वजनायितम् ।
सरित्तीरेषु मत्स्यार्थं भ्रान्तं बडिशधारिणा
32
Keep
कल्पे जगत्सुनाशार्थं कृतान्तेनेव पाशिना ।
पीतं बहूपवासेन सद्यःकृत्तमृगोरसः
33
Keep
तत्कालकोष्णं रुधिरं मातुः स्तनपयो यथा ।
श्मशानसंस्थितान्मत्तो रक्तरक्तान्मलाशिनः
34
Keep
विद्रुता वनवेतालाश्चण्डिकाभिद्रुता इव ।
वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम्
35
Keep
आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः ।
मया मायामयैर्लोकाः सूत्रजालमयैः खगाः
36
Keep
जालैर्जर्जरता नीता दिशश्चासुकृतायुषा ।
तत्रापि दत्तः प्रसरो मनसो दुष्कृतोदये
37
Keep
आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी ।
करभ्या इव सर्पेण विद्रुतं दूरतो धिया
38
Keep
दूरे त्यक्ता दया देहे भुजङ्गेनेव कंचुकम् ।
क्रौर्यं सुखेन संरम्भशरवर्षिं निनादि च
39
Keep
अङ्गीकृतं निदाघान्ते नभसेवासिताम्बुदः ।
विकासिन्यो क्षताः क्षारा दूरं परिहृता जनैः
40
Keep
श्वभ्रेणेव कुमञ्जर्यश्चिरमूढा मयापदः ।
स्वकालकुलकोणासु नरकोद्दामभूमिषु
41
Keep
उप्ता दुष्कृतबीजानां मुष्टयो मोहवृष्टयः ।
वागुराभिर्मया विन्ध्यकन्दरस्थेन निर्दयम्
42
Keep
भूतेष्विव कृतान्तेन मृगेषु परिवल्गितम् ।
चामरीकण्ठकुड्येषु विश्रान्तशिरसा मया
43
Keep
सुप्तमस्तविवेकेन शेषाङ्गेष्विव शौरिणा ।
विलोलचरणाम्बरया सरावोल्लासिधूम्रया
44
Keep
मम तन्वा सनीहारविन्ध्यकच्छगुहायितम् ।
कृष्णदेहेन यौकाढ्याकन्थास्कन्धे मया चिरम्
45
Keep
ग्रीष्मे सोढा चलद्भूता वराहेण यथोर्वरा ।
बहुशोऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः
46
Keep
कल्पाग्निभुक्तजगतः कालस्यानुगतिं गतः ।
लोभिलिङ्गो यथा रोगमनर्थानिव दुर्ग्रहः ।
प्रसूतास्तत्र मे दारा दुःखान्यथ सुखान्यपि
47
Keep
नृपालपुत्रकेनैकतनयेन तदा मया ।
नीता नीरन्ध्रदोषेण षष्टिः कल्पसमाः समाः
48
Keep
आक्रुष्टमुद्धुरतरं रुदितं विपत्सु
भुक्तं कदन्नमुषितं हतपक्कणेषु ।
कालान्तरं बहु मयोपहतेन तत्र
दुर्वासनानिगडबन्धगतेन सभ्याः
Previous
←
Sarga 106
Next
Sarga 108
→