Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 108
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
राजोवाच ।
अथ गच्छति कालेऽत्र जराजर्जरितायुषि ।
तुषारपूर्णशष्पौघसमश्मश्रुभृते मयि
2
Keep
कर्मवातापनुन्नेषु सरसेष्वरसेष्वपि ।
पतत्सु वासरौघेषु शीर्णपर्णगणेष्विव
3
Keep
आजाविव शरौघेषु सुखदुःखेष्वनारतम् ।
कलहेष्वप्यकार्येषु चागच्छत्सु पतत्सु च
4
Keep
विकल्पकल्पनावर्तवर्तिनि द्विजगे जडे ।
समुद्र इव कल्लोलभरे भ्रमितचेतसि
5
Keep
चलच्चिन्ताचितं चक्रमारूढे भ्रान्त आत्मनि ।
प्रोह्यमाने तृण इव सावर्तं कालसागरे
6
Keep
विन्ध्योर्वीवनकीटस्य ग्रासैकशरणस्य मे ।
द्विबाहोर्गर्दभस्यात्र क्षीण इत्थं समागणे
7
Keep
विस्मृते मम भूपत्वे शवस्येव महाजवे ।
चाण्डालत्वे स्थिरीभूते पक्षच्छिन्न इवाचले
8
Keep
संसारमिव कल्पान्तो दावाग्निरिव काननम् ।
सागरोर्मिस्तटमिव शुष्कवृक्षमिवाशनिः
9
Keep
अकाण्डे मरणोड्डीनं चण्डचण्डालमण्डलम् ।
निरन्नतृणपत्राम्बु विन्ध्यकच्छं तदाययौ
10
Keep
न वर्षति घनव्राते दृष्टनष्टे क्वचित्स्थिते ।
पूतांगारकणोन्मिश्रगतौ वहति मारुते
11
Keep
शीर्णमर्मरपर्णासु दावाग्निवलितासु च ।
वनस्थलीषु शून्यासु चिरप्रव्रजितास्विव
12
Keep
अकाण्डमभवद्भीममुद्दामदवपावकम् ।
शोषिताशेषगहनं भस्मशेषतृणोलपम्
13
Keep
पांसुधूसरसर्वाङ्गं क्षुधिताशेषमानवम् ।
निरन्नतृणपानीयं देशाद्युद्दावमण्डलम्
14
Keep
कचन्मरुमरीच्यम्बुमज्जन्महिषमण्डलम् ।
वातोत्थसीकरव्यूहापरिवाहवनाम्बरम्
15
Keep
पानीयशब्दमात्रैकश्रवणोत्कनरव्रजम् ।
आतपाततिसंशोषसीदत्सकलमानवम्
16
Keep
पत्रग्रसनसंरब्धक्षुधितोत्थितजीवितम् ।
स्वाङ्गचर्वणसंरम्भलुठद्दशनमण्डलम्
17
Keep
मांसशङ्कानिगीर्णोग्रखदिराग्निकणोत्करम् ।
मण्डकासारसंग्रस्तवनपाषाणखण्डकम्
18
Keep
अन्योन्यभूतसंसक्तमातृपुत्रपितृव्रजम् ।
गृध्रोदररटत्सारनिगीर्णवरसारिकम्
19
Keep
परस्पराङ्गविच्छेदरक्तसिक्तधरातलम् ।
हरिग्रसनसंरब्धमत्तक्षुधितवारणम्
20
Keep
दरीनिगरणैकैकसिंहभ्रमणभीषणम् ।
अन्योन्यग्रसनोद्युक्तलोकमल्लकृतं वहत्
21
Keep
निष्पत्रपादपोड्डीनप्रौढाङ्गारमयानिलम् ।
रक्तपानोत्कमार्जारलीढधातुतटावनि
22
Keep
ज्वालाघनघटाटोपसावर्तसवनानिलम् ।
सर्वस्थलरसद्वह्निपुञ्जपिञ्जरजङ्गलम्
23
Keep
दग्धाजगरकुञ्जोत्थधूममांसलगुल्मकम् ।
मारुतावलितज्वालासंध्याभ्रवलिताम्बरम्
24
Keep
उद्दामरवमुद्भान्तभस्मनाऽस्तम्भमण्डलम् ।
साक्रन्दनरदाराग्रदीनार्भककृतारवम्
25
Keep
संभ्रान्तपुरुषव्यूहदन्तकृत्तमहाशवम् ।
मांसगन्धजवग्रस्तरक्तारक्तनिजाङ्गुलि
26
Keep
नीलपत्रलताशङ्कापीतधूमघनच्छवि ।
भ्रमद्गृध्रनिगीर्णोग्रनभोभ्रान्तोल्मुकामिषम्
27
Keep
इतरेतरभिन्नाङ्गलोकविद्रवणाकुलम् ।
ज्वलिताग्निटणत्कारविदीर्णहृदयोदरम्
28
Keep
गर्तमारुतक्राङ्कारभीमदावाग्निवल्गनम् ।
भीताजगरफूत्कारपतदङ्गारपादपम्
29
Keep
सदकाण्डस्फुटद्देशं प्राप्य तच्छुष्ककोटरम् ।
द्वादशार्काग्निदग्धस्य जगतोऽनुकृतिं ययौ
30
Keep
ज्वलदनलजटालवृक्षखण्ड-
प्रसरमरुत्प्रसरावनुन्नलोकः ।
ज्वलनतपनभास्करात्मजानां
रमणगृहानुकृतिं जगाम देशः
Previous
←
Sarga 107
Next
Sarga 109
→