Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 11
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
इदं रूपमिदं दृश्यं जगन्नास्तीति भासुरम् ।
महाप्रलयसंप्राप्तौ भो ब्रह्मन्क्वेव तिष्ठति
2
Keep
कुत आयाति कीदृग्वा वन्ध्यापुत्रः क्व गच्छति ।
क्व याति कुत आयाति वद वा व्योमकाननम्
3
Keep
वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति ।
कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता
4
Keep
वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन ।
जगदाद्यखिलं दृश्यं तथा नास्ति कदाचन
5
Keep
न चोत्पन्ने न च ध्वंसि यत्किलादौ न विद्यते ।
उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा
6
Keep
वन्ध्यापुत्रनभोवृक्षकल्पना तावदस्ति हि ।
सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत्
7
Keep
तुल्यस्यातुलदुःस्थस्य भावकैः किल तोलनम् ।
निरन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि
8
Keep
यथा सौवर्णकटके दृश्यमानमिदं स्फुटम् ।
कटकत्वं तु नैवास्ति जगत्त्वं न तथा परे
9
Keep
आकाशे च यथा नास्तिशून्यत्वं व्यतिरेकवत् ।
जगत्त्वं ब्रह्मणि तथा नास्त्येवाप्युपलब्धिमत्
10
Keep
कज्जलान्न यथा कार्ष्ण्यं शैत्यं च न यथा हिमात् ।
पृथगेवं भवेद्बुद्धं जगन्नास्ति परे पदे
11
Keep
यथा शैत्यं न शशिनो न हिमाद्व्यतिरिच्यते ।
ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान्
12
Keep
मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता ।
नास्त्येवेह जगन्नाम दृष्टमप्यमलात्मनि
13
Keep
आदावेव हि यन्नास्ति कारणासंभवात्स्वयम् ।
वर्तमानेऽपि तन्नास्ति नाशः स्यात्तत्र कीदृशः
14
Keep
क्वासंभवद्भूतजाड्यं पृथ्व्यादेर्जडवस्तुनः ।
कार्यकारणं भवितुं शक्तं छायायाश्चातपो यथा
15
Keep
कारणाभावतः कार्यं नेदं तत्किंचनोदितम् ।
यत्तत्कारणमेवास्ति तदेवेत्थमवस्थितम्
16
Keep
अज्ञानमेव यद्भाति संविदाभासमेव तत् ।
यज्जगद्दृश्यते स्वप्ने संवित्कचनमेव तत्
17
Keep
संवित्कचनमेवान्तर्यथा स्वप्ने जगद्भ्रमः ।
सर्गादौ ब्रह्मणि तथा जगत्कचनमाततम्
18
Keep
यदिदं दृश्यते किंचित्सदैवात्मनि संस्थितम् ।
नास्तमेति न चोदेति जगत्किंचित्कदाचन
19
Keep
यथा द्रवत्वं सलिलं स्पन्दनं पवनो यथा ।
यथा प्रकाश आभासो ब्रह्मैव त्रिजगत्तथा
20
Keep
यथा पुरमिवास्तेऽन्तर्विदेव स्वप्नसंविदः ।
तथा जगदिवाभाति स्वात्मैव परमात्मनि
21
Keep
एवं चेत्तत्कथं ब्रह्मन्सुघनप्रत्ययं वद ।
इदं दृश्यविषं जातमसत्स्वप्नानुभूतिवत्
22
Keep
सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता ।
एकसत्त्वे द्वयोर्बन्धो मुक्तिरेकक्षये द्वयोः
23
Keep
अत्यन्तासंभवो यावद्बुद्धो दृश्यस्य न क्षयः ।
तावद्द्रष्टरि दृश्यत्वं न संभवति मोक्षधीः
24
Keep
दृश्यं चेत्संभवत्यादौ पश्चात्क्षयमुपालभेत् ।
तद्दृश्यस्मरणानर्थरूपो बन्धो न शाम्यति
25
Keep
यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः ।
प्रतिबिम्बो लगत्येव सर्वस्मृतिमयो ह्यलम्
26
Keep
आदावेव हि नोत्पन्नं दृश्यं नास्त्येव चेत्स्वयम् ।
द्रष्टुर्दृश्यस्वभावत्वात्तत्संभवति मुक्तता
27
Keep
तस्मादसंभवन्मुक्तेर्मम प्रोत्सार्य युक्तिभिः ।
अत्यन्तासंभवो यावत्कथयात्मविदां वर
28
Keep
असदेव सदा भाति जगत्सर्वात्मकं यथा ।
श्रृण्वहं कथया राम दीर्घया कथयामि ते
29
Keep
व्यवसायकथावाक्यैर्यावत्तत्रानुवर्णितम् ।
न विश्राम्यति ते तावद्धृदि पांसुर्यथा ह्रदे
30
Keep
अत्यन्ताभावमस्यास्त्वं जगत्सर्गभ्रमस्थितेः ।
बुद्धैकध्याननिष्ठात्मा व्यवहारं करिष्यसि
31
Keep
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः ।
दृशस्त्वां वेधयिष्यन्ति न महाद्रिमिवेषवः
32
Keep
स एषोऽस्त्येक एवात्मा न द्वितीयास्ति कल्पना ।
जगदत्र यथोत्पन्नं तत्ते वक्ष्यामि राघव
33
Keep
तस्मादिमानि सकलानि विजृम्भितानि
सोऽपीदमङ्ग सकलासकलं महात्मा ।
रूपावलोकनमनोमननप्रकारा
कारास्पदं स्वयमुदेति विलीयते च
Previous
←
Sarga 10
Next
Sarga 12
→