Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 12
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
एतस्मात्परमाच्छान्तात्पदात्परमपावनात् ।
यथेदमुत्थितं विश्वं तच्छृणूत्तमया धिया
2
Keep
सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् ।
सर्वात्मकं च तत्स्थानं तत्र तावत्क्रमं श्रृणु
3
Keep
तस्यानन्तप्रकाशात्मरूपस्यानन्तचिन्मणेः ।
सत्तामात्रात्मकं विश्वं यदजस्रं स्वभावतः
4
Keep
तदात्मनि स्वयं किंचिच्चेत्यतामिव गच्छति ।
अगृहीतात्मकं संविदहंमर्शनपूर्वकम् ।
5
Keep
भाविनामार्थकलनैः किंचिदूहितरूपकम् ।
आकाशादणु शुद्धं च सर्वस्मिन्भाति बोधनम्
6
Keep
ततः सा परमा सत्ता सचेतश्चेतनोन्मुखी ।
चिन्नामयोग्या भवति किंचिल्लभ्यतया तथा
7
Keep
घनसंवेदना पश्चाद्भाविजीवादिनामिका ।
संभवत्यात्तकलना यदोज्झति परं पदम्
9
Keep
सत्तैव भावनामात्रसारा संसरणोन्मुखी ।
तदा वस्तुस्वभावेन त्वनुत्तिष्ठति तामिमाम् । ।
समनन्तरमेवास्याः स्वसत्तोदेति शून्यता ।
शब्दादिगुणबीजं सा भविष्यदभिधार्थदा
10
Keep
अहंतोदेति तदनु सह वै कालसत्तया ।
भविष्यदभिधार्थेन बीजं मुख्यजगत्स्थितेः
11
Keep
तस्याः शक्तेः परायास्तु स्वसंवेदनमात्रकम् ।
एतज्जालमसद्रूपं सदिवोदेति विस्फुरत्
12
Keep
एवंप्रायात्मिका संविद्बीजं संकल्पशाखिनः ।
भवत्यहंकारकणस्ततः स्पन्दतया मरुत्
13
Keep
चिदहं तावती व्योमशब्दतन्मात्रभावनात् ।
स्वतो घनीभूय शनैः स्वतन्मात्रं भवत्यलम्
14
Keep
भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।
पदवाक्यप्रमाणाख्यं वेदवृन्दं विकासितम्
15
Keep
तस्मादुदेष्यत्यखिला जगच्छ्रीः परमात्मनः ।
शब्दौघनिर्मितार्थौघपरिणामविसारिणः
16
Keep
चिदेवंपरिवारा सा जीवशब्देन कथ्यते ।
भाविशब्दार्थजालेन बीजं रूपौघशाखिनः
17
Keep
चतुर्दशविधं भूतजालमावलितान्तरम् ।
जगज्जठरगर्तौघं प्रसरिष्यति वै ततः
18
Keep
असंप्राप्ताभिधाचारा चिज्जवात्प्रस्फुरद्वपुः ।
सा चैव स्पर्शतन्मात्रं भावनाद्भवति क्षणात्
19
Keep
पवनस्कन्धविस्तारं बीजं स्पर्शौघशाखिनः ।
सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति
20
Keep
तत्रैव चिद्विलासेन प्रकाशोऽनुभवाद्भवेत् ।
तेजस्तन्मात्रकं तत्तु भविष्यदभिधार्थकम्
21
Keep
तत्सूर्याग्निविजृम्भादिबीजमालोकशाखिनः ।
तस्माद्रूपविभेदेन संसारः प्रसरिष्यति
22
Keep
भावयंस्तनुतामेव रसस्कन्ध इवाम्भसः ।
स्वदनं तस्य सङ्घस्य रसतन्मात्रमुच्यते
23
Keep
भाविवारिविलासात्मा तद्बीजं रसशाखिनः ।
अन्योन्यस्वदने तस्मात्संसारः प्रसरिष्यति
24
Keep
भविष्यद्रूपसंकल्पनामासौ कल्पनात्मकः ।
संकल्पात्मगुणैर्गन्धतन्मात्रत्वं प्रपश्यति
25
Keep
भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।
सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति
26
Keep
चिता विभाव्यमानानि तन्मात्राणि परस्परम् ।
स्वयं परिणतान्यन्तरम्बुनीव निरन्तरम्
27
Keep
तथैतानि विमिश्राणि विविक्तानि पुनर्यथा ।
न शुद्धान्युपलभ्यन्ते सर्वनाशान्तमेव हि
28
Keep
संवित्तिमात्ररूपाणि स्थितानि गगनोदरे ।
भवन्ति वटजालानि यथा बीजकणान्तरे
29
Keep
प्रसवं परिपश्यन्ति शतशाखं स्फुरन्ति च ।
परमाण्वन्तरे भान्ति क्षणात्कल्पीभवन्ति च
30
Keep
विवर्तमेव धावन्ति निर्विवर्तानि सन्ति च ।
चिद्वेधितानि सर्वाणि क्षणात्पिण्डीभवन्ति च
31
Keep
तन्मात्रगणमेतत्स्यात्सा संकल्पात्मिका चितिः ।
वेदनात्रसरेण्वाभमनाकारैव पश्यति
32
Keep
बीजं जगत्सु ननु पञ्चकमात्रमेव
बीजं पराव्यवहितस्थितिशक्तिराद्या ।
बीजं तदेव भवतीति सदानुभूतं
चिन्मात्रमेवमजमाद्यमतो जगच्छीः
Previous
←
Sarga 11
Next
Sarga 13
→