Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 117
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
कीदृश्यो भगवन्योगभूमिकाः सप्तसिद्धिदाः ।
समासेनेति मे ब्रूहि सर्वतत्त्वविदांवर
2
Keep
अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि ।
पदान्तराण्यसंख्यानि भवन्त्यन्यान्यथैतयोः
3
Keep
स्वयत्नसाधकरसान्महासत्ताभरोन्नतेः ।
एते प्रतिपदं बद्धमूले संफलतः फलम्
4
Keep
तत्र सप्तप्रकारा त्वमज्ञानस्य भुवं श्रृणु ।
ततः सप्तप्रकारां त्वं श्रोष्यसि ज्ञानभूमिकाम्
5
Keep
स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् ।
एतत्संक्षेपतः प्रोक्तं तज्ज्ञत्वाज्ञत्वलक्षणम्
6
Keep
शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये ।
रागद्वेषोदयाभावात्तेषां नाज्ञत्वसंभवः
7
Keep
यत्स्वरूपपरिभ्रंशाच्चेत्यार्थे चितिमज्जनम् ।
एतस्मादपरो मोहो न भूतो न भविष्यति
8
Keep
अर्थादर्थान्तरं चित्ते याति मध्ये हि या स्थितिः ।
निरस्तमनना यासौ स्वरूपस्थितिरुच्यते
9
Keep
संशान्तसर्वसंकल्पा या शिलान्तरिव स्थितिः ।
जाड्यनिद्राविनिर्मुक्ता सा स्वरूपस्थितिः स्मृता
10
Keep
अहंतांशे क्षते शान्ते भेदे निःस्पन्दतां गते ।
अजडा या प्रकचति तत्स्वरूपमिति स्थितम्
11
Keep
तत्रारोपितमज्ञानं तस्य भूमीरिमाः श्रृणु ।
बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च
12
Keep
जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् ।
इति सप्तविधो मोहः पुनरेव परस्परम्
13
Keep
श्लिष्टो भवत्यनेकाख्यः श्रृणु लक्षणमस्य च ।
प्रथमे चेतनं यत्स्यादनाख्यं निर्मलं चितः
14
Keep
भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ।
बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते
15
Keep
एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संसृतिं श्रृणु ।
नवप्रसूतस्य परादयं चाहमिदं मम
16
Keep
इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ।
अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः
17
Keep
पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुरन् ।
अरूढमथ वा रूढं सर्वथा तन्मयात्मकम्
18
Keep
यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते ।
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः
19
Keep
अभ्यासात्प्राप्य जाग्रत्त्वं स्वप्नोऽनेकविधो भवेत् ।
अल्पकालं मया दृष्टमेवं नो सत्यमित्यपि
20
Keep
निद्राकालानुभूतेऽर्थे निद्रान्ते प्रत्ययो हि यः ।
स स्वप्नः कथितस्तस्य महाजाग्रत्स्थितेर्हृदि
21
Keep
चिरसंदर्शनाभावादप्रफुल्लवृहद्वपुः ।
स्वप्नो जाग्रत्तया रूढो महाजाग्रत्पदं गतः
22
Keep
अक्षतेवाक्षते देहे स्वप्नजाग्रन्मतं हि तत् ।
षडवस्थापरित्यागे जडा जीवस्य या स्थितिः
23
Keep
भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः ।
एते तस्यामवस्थायां तृणलोष्टशिलादयः
24
Keep
पदार्थाः संस्थिताः सर्वे परमाणुप्रमाणिनः ।
सप्तावस्था इति प्रोक्ता मयाऽज्ञानस्य राघव
25
Keep
एकैका शतशाखात्र नानाविभवरूपिणी ।
जाग्रत्स्वप्नश्चिरं रूढो जागृतावेव गच्छति
26
Keep
नानापदार्थभेदेन सविकासं विजृम्भते ।
अस्यामप्युदरे सन्ति महाजाग्रद्दशादृशः
27
Keep
तासामप्यन्तरे लोको मोहान्मोहान्तरं व्रजेत् ।
अन्तःपातिजलावर्त इव धावति नौर्भ्रमम्
28
Keep
काश्चित्संसृतयो दीर्घ स्वप्नजाग्रत्तया स्थिताः ।
काश्चित्पुनः स्वप्नजाग्रज्जाग्रत्स्वप्नास्तथेतराः
29
Keep
अज्ञानभूमिरिति सप्तपदा मयोक्ता
नानाविकारजगदन्तरभेदहीना ।
अस्याः समुत्तरसि चारुविचारणाभि-
र्दृष्टे प्रबोधविमले स्वयमात्मनोति
Previous
←
Sarga 116
Next
Sarga 118
→