Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 118
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ।
नानया ज्ञातया भूयो मोहपङ्के निमज्जसि
2
Keep
वदन्ति बहुभेदेन वादिनो योगभूमिकाः ।
मम त्वभिमता नूनमिमा एव शुभप्रदाः
3
Keep
अवबोधं विदुर्ज्ञानं तदिदं सप्तभूमिकम् ।
मुक्तिस्तु ज्ञेयमित्युक्तं भूमिकासप्तकात्परम्
4
Keep
सत्यावबोधो मोक्षश्चैवेति पर्यायनामनी ।
सत्यावबोधो जीवोऽयं नेह भूयः प्ररोहति
5
Keep
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीया तु तृतीया तनुमानसा
6
Keep
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता
7
Keep
आसामन्ते स्थिता मुक्तिस्तस्यां भूयो न शोच्यते ।
एतासां भूमिकानां त्वमिदं निर्वचनं श्रृणु
8
Keep
स्थितः किं मूढ एवास्मि प्रेक्ष्येऽहं शास्त्रसज्जनैः ।
वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः
9
Keep
शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा
10
Keep
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता ।
यात्र सा तनुता भावात्प्रोच्यते तनुमानसा
11
Keep
भूमिकात्रितयाभ्यासाच्चित्तेऽर्थे विरतेर्वशात् ।
सत्यात्मनि स्थितिः शुद्धे सत्त्वापत्तिरुदाहृता
12
Keep
दशाचतुष्टयाभ्यासादसंसङ्गफलेन च ।
रूढसत्त्वचमत्कारात्प्रोक्ताऽसंसक्तिनामिका
13
Keep
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् ।
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात्
14
Keep
परप्रयुक्तेन चिरं प्रयत्नेनार्थभावनात् ।
पदार्थाभावनानाम्नी षष्ठी संजायते गतिः
15
Keep
भूमिषट्रुचिराभ्यासाद्भेदस्यानुपलम्भतः ।
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः
16
Keep
एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते ।
विदेहमुक्तिविषयस्तुर्यातीतमतः परम्
17
Keep
ये हि राम महाभागाः सप्तमीं भूमिकां गताः ।
आत्मारामा महात्मानस्ते महत्पदमागताः
18
Keep
जीवन्मुक्ता न सज्जन्ति सुखदुःखरसस्थितौ ।
प्रकृतेनार्थकार्याणि किंचित्कुर्वन्ति वा न वा
19
Keep
पार्श्वस्थबोधिताः सन्तः सर्वाचारक्रमागतम् ।
आचारमाचरन्त्येव सुप्रबुद्धवदक्षतम्
20
Keep
आत्मारामतया तांस्तु सुखयन्ति न काश्चन ।
जगत्क्रियाः सुसंसुप्तान्रूपालोकाः स्त्रियो यथा
21
Keep
भूमिकासप्तकं चैतद्धीमतामेव गोचरम् ।
न पशुस्थावरादीनां न च म्लेच्छादिचेतसाम्
22
Keep
प्राप्ता ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये ।
सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः
23
Keep
ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति हि मुक्तता ।
मृगतृष्णाम्बुबुद्ध्यादि शान्तिमात्रात्मकस्त्वसौ
24
Keep
ये तु मोहात्समुत्तीर्णा न प्राप्ताः पावनं पदम् ।
आस्थिता भूमिकास्वासु स्वात्मलाभपरायणाः
25
Keep
सर्वभूमिगताः केचित्केचिद्द्वित्रैकभूमिकाः ।
भूमिषद्रुगताः केचित्केचित्सप्तकभूमिकाः
26
Keep
भूमित्रयगताः केचित्केचिदन्त्या भुवं गताः ।
भूचतुष्टयगाः केचित्केचिद्भूमिद्वये स्थिताः
27
Keep
भूम्यंशभाजनाः केचित्केचित्सार्धत्रिभूमिकाः ।
केचित्सार्धचतुर्भूगाः सार्धषडभूमिकाः परे
28
Keep
विवेकिनो नरा लोके चरन्त इति भूमिषु ।
ग्रहायतनतापस्य दृशावेशेषु संस्थिताः
29
Keep
ते हि धीराः सुराजानो दशास्वासु जयन्ति ये ।
तृणायतेऽत्र दिग्दन्तिघटाभटपराजयः
30
Keep
ये तासु भूमिषु जयन्ति हि ये महान्तो
वन्द्यास्त एव हि जितेन्द्रियशत्रवस्ते ।
सम्राड्विराडपि च यत्र तृणायते वै
तस्मात्परं जगति ते समवाप्नुवन्ति
Previous
←
Sarga 117
Next
Sarga 119
→