Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 27
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
तस्मिन् गिरितटे ग्रामे तस्य मण्डपकोटरे ।
अन्तर्धिमाश्वाययतुस्तत्रस्थे एव ते स्त्रियौ
2
Keep
अस्माकं वनदेवीभ्यां प्रसादः कृत इत्यथ ।
शान्तदुःखे गृहजने स्वव्यापारपरे स्थिते
3
Keep
मण्डपाकाशसंलीनां लीलामाह सरस्वती ।
व्योमरूपा व्योमरूपां स्मयात्तूष्णीमिव स्थिताम्
4
Keep
संकल्पस्वप्नयोर्येषां यत्र संकथनं मिथः ।
यथेहार्थक्रियां धत्ते तयोः सा संकथा तथा
5
Keep
पृथ्व्यादिनाडीप्राणादिऋतेऽप्यभ्युदिता तयोः ।
सा संकथनसंवित्तिः स्वप्नसंकल्पयोरिव
6
Keep
श्रीसरस्वत्युवाच ।
ज्ञेयं ज्ञातमशेषेण दृष्टादृष्टार्थसंविदः ।
ईदृशीयं ब्रह्मसत्ता किमन्यद्वद पृच्छसि
7
Keep
लीलोवाच ।
मृतस्य भर्तुर्जोवोऽसौ यत्र राज्यं करोति मे ।
तत्राहं किं न तद्दृष्टा दृष्टास्मीह सुतेन किम्
8
Keep
श्रीसरस्वत्युवाच ।
अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः ।
नूनमस्तंगतो नाभून्निःशेषं वरवर्णिनि
9
Keep
अद्वैतं यो न यातोऽसौ कथमद्वैतकर्मभिः ।
युज्यते तापसंस्थस्य च्छायाङ्गानुभवः कुतः
10
Keep
लीलास्मीति विनाभ्यासं तव नास्तगतोऽभवत् ।
यदा भावस्तदा सत्यसंकल्पत्वमभून्न ते
11
Keep
अद्यासि सत्यसंकल्पा संपन्ना तेन मां सुतः ।
सपश्यत्वित्यभिमतं फलितं तव सुन्दरि
12
Keep
इदानीं तस्य भर्तुस्त्वं समीपं यदि गच्छसि ।
तत्तेन व्यवहारस्ते पूर्ववत्संप्रवर्तते
13
Keep
लीलोवाच ।
इहैव मन्दिराकाशे पतिर्विप्रो ममाभवत् ।
इहैव स मृतो भूत्वा संपन्नो वसुधाधिपः
14
Keep
इहैव तस्य संसारे तस्मिन्भूमण्डलान्तरे ।
राजधानीपुरे तस्मिन्पुरन्ध्र्यस्मि व्यवस्थिता
15
Keep
इहैवान्तःपुरे तस्मिन्स मृतो मम भूपतिः ।
इहैवान्तःपुराकाशे तस्मिन्नेव पुरे नृपः
16
Keep
संपन्नो वसुधापीठे नानाजनपदेश्वरः ।
सर्वार्जवजवीभाव इहैवैवं व्यवस्थितः
17
Keep
अस्मिन्नेव गृहाकाशे सर्वा ब्रह्माण्डभूमयः ।
स्थिताः समुद्गके मन्ये यथान्तः सर्षपोत्कराः
18
Keep
सदाऽदूरमहं मन्ये तद्भर्तुर्मम मण्डलम् ।
क्वचित्पार्श्वे स्थितमिह यथा पश्यामि तत्कुरु
19
Keep
श्रीदेव्युवाच ।
भूतलारुन्धतिसुते भर्तारस्तव संप्रति ।
त्रयो नामाथवाभूवन्बहवः शतसंमताः
20
Keep
नेदीयसां त्रयाणां तु द्विजस्ते भस्मतां गतः ।
राजा माल्यान्तरगतः संस्थितोऽन्तःपुरे शवः
21
Keep
संसारमण्डले ह्यस्मिंस्तृतीयो वसुधाधिपः ।
महासंसारजलधिं पतितो भ्रममागतः
22
Keep
भोगकल्लोलकलनाविकलो मलचेतनः ।
जाड्यजर्जरचिद्वृत्तिः संसाराम्भोधिकच्छपः
23
Keep
चित्राणि राजकार्याणि कुर्वन्नप्याकुलान्यपि ।
सुप्तः स्थितो जडतया न जागर्ति भवभ्रमे
24
Keep
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।
इत्यनर्थमहारज्वा वलितो वशतां गतः
25
Keep
तत्कस्य वद भर्तुस्त्वां समीपं वरवर्णिनि ।
वात्या वनान्तरं गन्धलेखामिव वनान्नये
26
Keep
अन्य एव हि संसारः सोऽन्यो ब्रह्माण्डमण्डपः ।
अन्या एव तता वत्से व्यवहारपरम्पराः
27
Keep
संसारमण्डलानीह तानि पार्श्वे स्थितान्यपि ।
दूरं योजनकोटीनां कोटयस्तेष्विहान्तरम्
28
Keep
आकाशमात्रमेतेषामिदं पश्य वपुः पुनः ।
मेरुमन्दरकोटीनां कोटयस्तेष्ववस्थिताः
29
Keep
परमाणौ परमाणौ सर्ववर्गानिरर्गलम् ।
महाचितेः स्फुरन्त्यर्करुचीव त्रसरेणवः
30
Keep
महारम्भगुरूण्येवमपि ब्रह्माण्डकानि हि ।
तुलया धानकामात्रमपि तानि भवन्ति नो
31
Keep
नानारत्नामलोद्द्योतो वनवद्भाति खे यथा ।
पृथ्व्यादिभूतरहिता जगच्चिद्भाति चिन्तया
32
Keep
कचति ज्ञप्तिरेवेदं जगदित्यादि नात्मनि ।
नतु पृथ्व्यादि संपन्नं सर्गादावेव किंचन
33
Keep
यथा तरङ्गः सरसि भूत्वा भूत्वा पुनर्भवेत् ।
विचित्राकारकालाङ्गदेशाज्ञप्तावलं तथा
34
Keep
लीलोवाच ।
एवमेतज्जगन्मातर्मया स्मृतमिहाधुना ।
ममेदं राजसं जन्म न तमो न च सात्त्विकम्
35
Keep
ब्रह्मणस्त्ववतीर्णाया अष्टौ जन्मशतानि मे ।
नानायोनीन्यतीतानि पश्यामीवाधुना पुनः
36
Keep
संसारमण्डले देवि कस्मिंश्चिदभवं पुरा ।
लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना
37
Keep
दुर्वासनाकलुषिता ततोऽहं मानुषी स्थिता ।
संसारमण्डलेऽन्यस्मिन्पन्नगेश्वरकामिनी
38
Keep
कदम्बकुन्दजम्बीरकरञ्जवनवासिनी ।
पत्राम्बरधरा श्यामा शबर्यहमथाभवम्
39
Keep
वनवासनया मुग्धा संपन्नाहमथोद्धता ।
गुलुच्छनयना पत्रहस्ता वनविलासिनी
40
Keep
पुण्याश्रमलता साहं मुनिसङ्गपवित्रिता ।
वनाग्निदग्धा तस्यैव कन्याभूवं महामुनेः
41
Keep
अस्त्रीत्वफलदातॄणां कर्मणां परिणामतः ।
राजाहमभवं श्रीमान्सुराष्ट्रेषु समाः शतम्
42
Keep
तालीनां तलकच्छेषु राजदुष्कृतदोषतः ।
नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम्
43
Keep
वर्षाण्यष्टौ सुराष्ट्रेषु देवि गोत्वं कृतं मया ।
मोहाद्दुर्जनदुष्टाज्ञबालगोपाललीलया
44
Keep
विहंग्या वैरविन्यस्ता वागुरा विपिनावनौ ।
क्लेशेन महता च्छिन्ना अधमा वासना इव
45
Keep
कर्णिकाक्रोडशय्यासु विश्रान्तमलिना सह ।
पद्मकुड्मलकोशेषु भुक्तकिंजल्कया रहः
46
Keep
भ्रान्तमुत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया ।
वनस्थलीषु रम्यासु किराताहतमर्मया
47
Keep
दृष्टं नष्टासु दिक्ष्वब्धिकल्लोलैरुह्यमानया ।
मत्स्याम्बुकच्छपाच्छोडे मोघमाननताडनम्
48
Keep
पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वरम् ।
पुलिन्द्या सुरतान्तेषु नालिकेररसासवम्
49
Keep
सारसीसरसालिन्या सीत्कारमधुरस्वरम् ।
सारसः सुरतैः स्वैरं सामन्तश्चारुरञ्जितः
50
Keep
तालीतमालकुञ्जेषु तरलानननेत्रया ।
क्षीबप्रेक्षणविक्षोभैः कृतं कान्तावलोकनम्
51
Keep
कनकस्यन्दसंदोहसुन्दरैरङ्गपञ्जरैः ।
स्वर्गेऽप्सरोम्बुजिन्याशु तोषिताः सुरषट्पदाः
52
Keep
मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले ।
कल्पद्रुमवने मेरौ यूना सह रतं कृतम्
53
Keep
कल्लोलाकुलकच्छासु लसद्गुच्छलतासु च ।
वेलावनगुहास्वब्धेश्चिरं कूर्मतया स्थितम्
54
Keep
तरत्तारतरङ्गासु दोलनं सरसालिनाम् ।
चलच्छदपटालीषु राजहंस्यं मया कृतम्
55
Keep
शाल्मलीदललोलानामान्दोलनदरिद्रताम् ।
मशकस्य मयालोक्य दीनं मशकया स्मितम्
56
Keep
तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः ।
भ्रान्तं शैलस्रवन्तीषु जलवञ्जुललीलया
57
Keep
गन्धमादनमन्दारमन्दिरे मदनातुरा ।
पातिताः पादयोः पूर्वं विद्याधरकुमारकाः
58
Keep
कर्णिकर्पूरपूरेषु तल्पेषु व्यसनातुरा ।
चिरं विलुलितास्मीन्दुबिम्बेष्विव शशिप्रभा
59
Keep
योनिष्वनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलात्मा ।
संसारदीर्घसरितश्चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण
Previous
←
Sarga 26
Next
Sarga 28
→