Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 28
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
वज्राङ्गसाराद्ब्रह्माण्डकुड्यान्निबिडमण्डलात् ।
कोटियोजनसंपुष्टात्कथं ते निर्गतेऽबले
2
Keep
क्व ब्रह्माण्डं क्व तद्भित्तिः क्वात्रासौ वज्रसारता ।
किलावश्यं स्थिते देव्यावन्तःपुरवराम्बरे
3
Keep
तस्मिन्नेव गिरिग्रामे तस्मिन्नेवालयाम्बरे ।
ब्राह्मणः स वसिष्ठाख्य आस्वादयति राजताम्
4
Keep
तमेव मण्डपाकाशकोणकं शून्यमात्रकम् ।
चतुःसमुद्रपर्यन्तं भूतलं सोऽनुभूतवान्
5
Keep
आकाशात्मनि भूपीठं तस्मिंस्तद्राजपत्तनम् ।
राजसद्मानुभवति स च सा चाप्यरुन्धती
6
Keep
लीलाभिधाना सा जाता तया च ज्ञप्तिरर्चिता ।
ज्ञप्त्या सह समुल्लङ्घ्य खमाश्चर्यमनोहरम्
7
Keep
प्रादेशमात्रे नभसि सा तत्रैवगृहोदरे ।
ब्रह्माण्डान्तरमासाद्य गिरिग्रामकमन्दिरे
8
Keep
ब्रह्माण्डात्परिनिर्गत्य स्वगृहे स्थितिमाययौ ।
स्वप्नात्स्वप्नान्तरं प्राप्य यथा तल्पगतः पुमान्
9
Keep
प्रतिभामात्रमेवैतत्सर्वमाकाशमात्रकम् ।
न ब्रह्माण्डं न संसारो न कुड्यादि न दूरता
10
Keep
स्वचित्तमेव कचति तयोस्तादृङ्मनोहरम् ।
वासनामात्रसोल्लेखं क्व ब्रह्माण्डं क्व संसृतिः
11
Keep
निरावरणमेवेदं ज्ञप्त्याकाशमनन्तकम् ।
किंचित्स्वचित्तेनोन्नीतं स्पन्दयुक्त्येव मारुतः
13
Keep
चिदाकाशमजं शान्तं सर्वत्रैव हि सर्वदा ।
चित्त्वाज्जगदिवाभाति स्वयमेवात्मनात्मनि । ।
येन बुद्धं तु तस्यैतदाकाशादप शून्यकम् ।
न बुद्धं येन तस्यैतद्वज्रसाराचलोपमम्
14
Keep
गृह एव यथा स्वप्ने नगरं भाति भासुरम् ।
तथैतदसदेवान्तश्चिद्धातौ भाति भास्वरम्
15
Keep
यथा मरौ जलं बुद्धं कटकत्वं च हेमनि ।
असत्सदिव भातीदं तथा दृश्यत्वमात्मनि
16
Keep
एवमाकथयन्त्यौ ते ललने ललिताकृती ।
गृहान्निर्ययतुर्बाह्यं चारुचक्रमणक्रमैः
17
Keep
आदृश्ये ग्रामलोकेन प्रेक्षमाणे पुरोगिरिम् ।
चुम्बिताकाशकुहरं संस्पृष्टादित्यमण्डलम्
18
Keep
नानावर्णाखिलोत्फुल्लविचित्रवननिर्मलम् ।
नानानिर्झरनिर्ह्रादकूजद्वनविहंगमम्
19
Keep
विचित्रमञ्जरीपुञ्जपिञ्जराम्बुदमण्डलम् ।
स्वभ्रमच्छगुलुच्छाग्रविश्रान्तखगसारसम्
20
Keep
सारवञ्जुलविस्तारगुप्ताखिलसरित्तटम् ।
असमाप्तशिलाश्वभ्रलतावर्तनमारुतम्
21
Keep
पुष्पाग्रपिहिताकाशकोशकुड्यकवारिदम् ।
पतद्दीर्घसरित्स्रोतः स्फुरन्मुक्ताकलापकम्
22
Keep
चलद्वृक्षवनव्यूहवातवेल्लिसरित्तटम् ।
नानावनाकुलोपान्तच्छायासततशीतलम्
23
Keep
अथ ते ललने तत्र तदा ददृशतुः स्वयम् ।
तं गिरिग्रामकं व्योम्नः स्वर्गखण्डमिव च्युतम्
24
Keep
रटत्प्रणालीपटलं पूर्णपुष्करिणीगणम् ।
द्विजैः कुचकुचैः कूजत्स्वलीलाश्वभ्रकच्छकम्
25
Keep
गच्छद्गोवृन्दहुंकारकरालाखिलकुञ्जकम् ।
कुञ्जगुल्मकखण्डाढ्यं सच्छायघनशाद्वलम्
26
Keep
दुष्प्रवेशार्ककिरणं दृशन्नीहारधूसरम् ।
उदग्रमञ्जरीपुञ्जजटालं विशिखान्तरम्
27
Keep
शिलाकुहरवाःस्फालप्रोच्चलन्मुक्तनिर्झरैः ।
स्मारिताचलनिर्धूत्क्षीरोदकजलश्रियम्
28
Keep
फलमाल्यमहाभारभासुरैरजिरद्रुमैः ।
आनीय पुष्पसंभारं तिष्ठद्भिरिव संकुलम्
29
Keep
तरत्तरङ्गझांकारकारिमारुतकम्पितैः ।
कीर्णपुष्पसमावृष्टं द्रुमैरपि रसाकुलैः
30
Keep
अशङ्कितशिलाकूटस्रवदब्बिन्दुटंकृतैः ।
किंचित्कृतरवं गुप्तैरशङ्कैः शङ्कितैः खगैः
31
Keep
उत्फाललहरीश्रान्तसीकरास्वादनाकुलैः ।
नद्यामुडुपरावर्तवृत्तिभिर्विहगैर्वृतम्
32
Keep
उत्तालतालविश्रान्तकाकालोकनशङ्कितैः ।
बालैः प्रगोपितामिक्षाखण्डं जीर्णस्वभुक्तकैः
33
Keep
पुष्पशेखरसंभारवसनग्रामबालकम् ।
खर्जूरनिम्बजम्बीरगहनोपान्तशीतलम्
34
Keep
क्षौमाग्रहस्ताम्बरया मञ्जरीपूर्णकर्णया ।
क्षुत्क्षीणयाक्रान्तरथ्यं ग्रामकीटककान्तया
35
Keep
सरित्तरङ्गसंघट्टसंरावाश्रुतसंकथम् ।
कर्मजाड्यघनत्रासवाञ्छितैकान्तसंस्थितम्
36
Keep
7५
दधिलिप्तास्यहस्तांसैः स्निग्धपुष्पलताधरैः ।
नग्नैर्गोमयपङ्काङ्कैर्बालैराकुलचत्वरम्
37
Keep
तीरशाद्वलवल्लीनां दोलान्दोलनकारिभिः ।
तरङ्गैर्वाह्यमानस्य लेखिकाङ्कितसैकतम्
38
Keep
दधिक्षीरघनामोदमत्तमन्थरमक्षिकम् ।
कामभुक्तार्थतोद्वाष्पजर्जराबलबालकम्
39
Keep
गोमयासिक्तवलयकरनारीकृतक्रुधम् ।
धम्मिल्लवलनाव्यग्रत्रस्तस्त्रीविहसज्जनम्
40
Keep
दान्तपुष्पच्छदोत्सन्नपतत्ककुदवायसम् ।
गृहरथ्यागणद्वारकीर्णक्रूरकुरण्टकम्
41
Keep
गृहपार्श्वस्थितश्वभ्रकुञ्जैः कुसुमितप्रभैः ।
प्रत्यहं प्रातरागुल्फमाकीर्णकुसुमाजिरम्
42
Keep
चरच्चमरसारङ्गजालजङ्गलखण्डकम् ।
गुञ्जानिकुञ्जसंजातशष्पसुप्तमृगार्भकम्
43
Keep
एकान्तसुप्तवत्सैककर्णस्पन्दास्तमक्षिकम् ।
गोपोच्छिष्टीकृतदधिखसृक्किस्पन्दिमक्षिकम्
44
Keep
समस्तसद्मसंक्षीणमक्षिकाक्षिप्तमाक्षिकम् ।
फुल्लाशोकद्रुमोद्यानकृतलाक्षिकमन्दिरम्
45
Keep
सीकरासारमरुता नित्यार्द्रविकचद्रुमम् ।
कदम्बमुकुलप्रोतसमस्तच्छादनतृणम्
46
Keep
प्रतिकृत्तलताफुल्लकेतकोत्करपाण्डुरम् ।
वहत्प्राणालपटलीरणद्गुरुगुरारवम्
47
Keep
वातायनगुहानिर्यत्सोधविश्रान्तवारिदम् ।
पूर्णपुष्करिणीपङ्क्तिपूर्णराजपृथूत्तरम्
48
Keep
नीरन्ध्रविटपिच्छायाशीतलामलशाद्वलम् ।
सर्वशष्पाग्रवार्बिन्दुप्रतिबिम्बिततारकम्
49
Keep
अनारतपतत्फुल्लहिमवर्षसितालयम् ।
विचित्रमञ्जरीपुष्पपत्रसत्फलपादपम्
50
Keep
गृहकक्षान्तरालीनमेघसुप्तचिरण्टिकम् ।
सौधस्थमेघविद्युद्भिरनादेयप्रदीपकम्
51
Keep
कन्दरानिलभांकारघनघुंघुममण्डपम् ।
चरच्चकोरहारीतहरिणीहारिमन्दिरम्
52
Keep
उन्निद्रकन्दलोद्वान्तमांसलामोदमन्थरैः ।
मरुद्भिर्मन्दमायातुमारब्धैर्लोलपल्लवम्
53
Keep
लावकालापलीलायामालीनललनागणम् ।
कोककोकिलकाकोलकोलाहलसमाकुलम्
54
Keep
शालतालतमालाब्जनीलतत्फलमालिनम् ।
वल्लीवलयविन्यासविलासवलितद्रुमम्
55
Keep
आलोलपल्लवलतावलितायनाना-
मुत्फुल्लकन्दलशिलीन्ध्रसुगन्धितानाम् ।
तालीतमालदलताण्डवमण्डपाना-
मारामफुल्लकुसुमद्रुमशीतलानाम्
56
Keep
साराववारिचलनाकुलगोकुलाना-
मानीलसस्यकुसुमस्थलशोभितानाम् ।
तीरद्रुमप्रकरगुप्तसरिद्रयाणां
नीरन्ध्रपुष्पितलताग्रवितानकानाम्
57
Keep
उद्यानकुन्दमकरन्दसुगन्धितानां
गन्धान्धषट्पदकुलान्तरिताम्बुजानाम् ।
सौन्दर्यतर्जितपुरन्दरमन्दिराणां
राजीवराजिरजसारुणिताम्बराणाम्
58
Keep
रंहोवहद्गिरिनदीरवघर्घराणां
कुन्दावदातजलदद्युतिभासुराणाम् ।
सौधस्थितोल्लसितफुल्ललतालयानां
लीलावलोलकलकण्ठविहङ्गमानाम्
59
Keep
उल्लासिकौसुमदलास्तरणस्थयूना-
मापादमावलितमाल्यविलासिनीनाम् ।
सर्वत्र सुन्दरनवाङ्कुरदन्तुराणां
शोभोल्लसद्वरलताकुलमार्गणानाम्
60
Keep
संजातकोमललतोत्पलसंकुलानां ।
तिष्ठत्पयोदपटसंवलितालयानाम् ।
नीहारहारहरितस्थलविश्रुतानां
सौधस्थमेघतडिदाकुलिताङ्गनानाम्
61
Keep
नीलोत्पलोल्लसितसौरभसुन्दराणां
हुंकारहारिहीरतोन्मुखगोकुलानाम् ।
विश्रब्धमुग्धमृगसारगृहाजिराणा-
मुन्नृत्यबर्हिघनसीकरनिर्झराणाम्
62
Keep
सौगन्ध्यमत्तपवनाहतविक्लवानां
वप्रौषधिज्वलनविस्मृतदीपकानाम् ।
कोलाहलाकुलकुलायकुलाकुलानां
कुल्याकुलाकलकलाश्रुतसंकथानाम्
63
Keep
मुक्ताफलप्रकरसुन्दरबिन्दुपात-
शीताखिलद्रुमलतातृणपल्लवानाम् ।
लक्ष्मीमनस्तमितपुष्पविकासभाजां
शक्नोति कः कलयितुं गिरिमन्दिराणाम्
Previous
←
Sarga 27
Next
Sarga 29
→