Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 32
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अथ वीरवरोत्कण्ठनृत्यदप्सरसि स्थिता ।
लीलावलोकयामास व्योम्नि विद्यान्वितावनौ
2
Keep
स्वराष्ट्रमण्डले भर्तृपालिते बलमालिते ।
कस्मिंश्चिद्विततारण्ये द्वितीयाकाशभीषणे
3
Keep
सेनाद्वितयमाक्षुब्धं सौम्याब्धिद्वितयोपमम् ।
महारम्भघनं मत्तं स्थितं राजद्वयान्वितम्
4
Keep
युद्धसज्जं सुसंनद्धमिद्धमग्निमिवाद्भुतम् ।
पूर्वप्रहारसंपातप्रेक्षाक्षुब्धाक्षिलक्षितम्
5
Keep
उद्यतामलनिस्त्रिंशधारासारवहज्जनम् ।
कचत्परश्वधप्रासभिन्दिपालर्ष्टिमुद्गरम्
6
Keep
गरुत्मत्पक्षविक्षुब्धवनसंपातकम्पितम् ।
उद्यद्दिनकरालोकचञ्चत्कनककङ्कटम्
7
Keep
परस्परमुखालोककोपप्रोद्दामितायुधम् ।
अन्योन्यबद्धदृष्टित्वाच्चित्रं भित्ताविवार्पितम्
8
Keep
लेखामर्यादया दीर्घबद्धया स्थापितस्थिति ।
अनिवार्यमहासैन्यझांकाराश्रुतसंकथम्
9
Keep
पूर्वप्रहारस्मयतश्चिरं संशान्तदुन्दुभि ।
निबद्धयोधसंस्थाननिखिलानीकमन्थरम्
10
Keep
धनुर्द्वितथमात्रात्मशून्यमध्यैकसेतुना ।
विभक्तं कल्पवातेन मत्तमेकार्णवं यथा
11
Keep
काये संकटसंरम्भचिन्तापरवशेश्वरम् ।
विरटद्भेककण्ठत्वग्भङ्गुरातुरहृद्गुहम्
12
Keep
प्राणसर्वस्वसंत्यागसोद्योगासंख्यसैनिकम् ।
कर्णाकृष्टशरौघौघत्यागोन्मुखधनुर्धरम्
13
Keep
प्रहारपातसंप्रेक्षानिष्पन्दासंख्यसैनिकम् ।
अन्योन्योत्कण्ठकाठिन्यभरभ्रुकुटिसंकटम्
14
Keep
परस्परसुसंघट्टकटुटङ्कारकङ्कटम् ।
वीरयोधमुखादग्धभीरुप्रेप्सितकोटरम्
15
Keep
मिथःसंस्थानकालोकमात्रासंदिग्धजीवितम् ।
समस्ताङ्गरुहासक्तप्रांशुवृद्धेभमानवम्
15-2
Keep
पूर्वप्रहारसंप्रेक्षाव्यग्रप्राणतया तया ।
संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम्
17
Keep
संशान्तशङ्खसंघाततूर्यनिर्ह्राददुन्दुभि ।
भूतलाकाशसंलीनसर्वपांसुपयोधरम्
18
Keep
पलायनपरैः पश्चात्त्यक्तमङ्गुलमण्डलम् ।
विसारिमकरव्यूहमत्स्यसंख्याब्धिभासुरम्
19
Keep
पताकामञ्जरीपुञ्जविजिताकाशतारकम् ।
हास्तिकोत्तम्भितकरकाननीकृतखान्तरम्
20
Keep
तरत्तरलभापूरसपक्षसकलायुधम् ।
धमद्धमितिशब्दैश्च श्वासोस्थैर्ध्मातखान्तरम्
21
Keep
चक्रव्यूहकराक्रान्तदुर्वृत्तसुरभासुरम् ।
गरुडव्यूहसंरम्भविद्रवन्नागसंचयम्
22
Keep
श्येनव्यूहविभिन्नाग्रसंनिवेशोत्तमध्वनि ।
अन्योन्यास्फोटनिःशेषप्रपतद्भूरिवृन्दकम्
23
Keep
विविधव्यूहविन्यासवान्तवीरवरारवम् ।
करप्रतोलनोल्लासमत्तमुद्गरमण्डलम्
24
Keep
कृष्णायुधांशुजलदश्यामीकृतदिवाकरम् ।
अनिलाधूतपल्यूलसूत्कृताभशरध्वनि
25
Keep
अनेककल्पकल्पाग्रसवृन्दमिव संस्थितम् ।
प्रलयानिलसंक्षुब्धमेकार्णवमिवोत्थितम्
26
Keep
सद्यश्छिन्नं महामेरोः पक्षद्वयमिव स्फुरत् ।
क्षुब्धमारुतनिर्धूतमिव कज्जलपर्वतम्
27
Keep
पातालकुहरात्क्षुब्धमन्धकारमिवोत्थितम् ।
लोकालोकमिवोन्मत्तनृत्यलोललसत्तटम् ।
महानरकसंघातं भित्त्वावनिमिवोत्थितम्
28
Keep
आलोलकुन्तमुसलासिपरश्वधांशु-
श्यामायमानदिवसातपवारिपूरैः ।
एकार्णवं भुवनकोशमिवाचिरेण
कर्तुं समुद्यतमगाधमनन्तपूरैः
Previous
←
Sarga 31
Next
Sarga 33
→