Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 33
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
भगवन्युद्धमेतन्मे समासेन मनाग्वद ।
श्रुतिराह्लाद्यते श्रोतुर्यस्मादेताभिरुक्तिमिः
2
Keep
अथ तत्रैव ते देव्यौ संग्रामं तमवेक्षितुम् ।
विमाने कल्पिते कान्ते रुद्धे रुरुहतुः स्थिरे
3
Keep
एतस्मिन्नन्तरे तत्र लीलेशः प्रतिपक्षतः ।
तमुत्सोढुमशक्तः सन्मुखव्यतिकरे रणे
4
Keep
प्रलयार्णवकल्लोल इवोत्पत्त्योद्भये भटे ।
जहौ सानाविव शिलां भटस्योरसि मुद्गरम्
5
Keep
अथ प्रवृत्तः प्रसभं प्रलयार्णवरंहसा ।
सेनयोः शस्त्रसंपातः किरन्ननलविद्युतः
6
Keep
तरत्तरलधाराग्ररेखाङ्कितनभस्तलः ।
ध्वनत्कणकणाशब्दमध्यलक्षितटांकृतिः
7
Keep
धीरहुंकारमिश्रोष्मघर्घरारवघस्मरः ।
प्रवृत्तशरधाराग्रभास्करार्चिर्वितानकः
8
Keep
नदत्कङ्कटटङ्कारप्रोड्डीनकणपावकः ।
परस्पराहतिच्छिन्नहेतिखण्डखगाम्बरः
9
Keep
वीरदोर्द्रुमसंचारवहद्वननभस्थलः ।
कोदण्डचक्रक्रेङ्कारद्रवद्वैमानिकाङ्गनः
10
Keep
महाहलहलारावभृङ्गीकृतघनध्वनिः ।
निर्विकल्पसमाधिस्थ इवैकघनतावशात्
11
Keep
नाराचासारधाराग्रलूनशूरशिरस्करः ।
परस्परांससंघट्टरणत्कङ्कटसंकटः
12
Keep
हुंकारहतहेत्युग्रसंघट्टकटुटांकृतः ।
तरद्धारातरङ्गाभ्रदन्तुराशेषदिङ्मुखः
13
Keep
हेतिसंघट्टविक्षोभमुष्टिग्राह्यझणज्झणः ।
चिरमास्फोटकास्फोटलुठच्चटचटारवः
14
Keep
प्रवहत्खड्गसीत्कारज्वलत्कणसणध्वनिः ।
सरच्छरभराध्वान्तशरत्खरखरारवः
15
Keep
धगद्धगितिविच्छिन्नकण्ठोत्थप्राणलोहितः ।
छिन्नबाहुशिरःखड्गखण्डनिर्विवराम्बरः
16
Keep
कङ्कटोत्थस्फुरद्वह्निसटास्पृष्टशिरोरुहः ।
रणत्पतदसिव्रातमत्तपीनझणज्झणः
17
Keep
कुन्तकुण्ठितमातङ्गतरङ्गोत्तुङ्गलोहितः ।
दन्तिदन्तविनिष्पेषतारचीत्कारकर्कशः
18
Keep
महामुसलसंपातपिष्टकष्टोद्धुरस्वरः ।
तरच्छूरशिरःपद्मप्रकराच्छादिताम्बरः
19
Keep
व्योमन्यस्तभुजाहीन्द्रः पूर्णधूलिमयाम्बुदः ।
छिन्नहेतिनरारब्धकेशाकेशिप्रतिक्रियः
20
Keep
नखानखिनिकृत्ताक्षिकर्णनासोष्ठकन्धरः ।
छिन्नायुधमहामल्लहेलोल्लालनलब्धभूः
21
Keep
पतत्समदमातङ्गकम्पितोर्वीलुठद्रयः ।
रणद्रथरयोत्पन्नक्षरद्रक्तसरित्पथः
22
Keep
रजोरचितनीहारः कचत्प्रवहदायुधः ।
एकीकृतघनक्षोभसैन्यसागरगर्जितः
23
Keep
मत्तहासविलासेन मृत्युना परिचर्वितः ।
गर्विताद्रीन्द्रनागेन्द्रखर्विताम्भोदगर्जितः
24
Keep
वृक्षश्वभ्रतटीच्छन्नचक्रशक्त्यृष्टिमुद्गरः ।
शरोर्णातन्तुनीरन्ध्रघृष्टियोधाद्रिमेखलः
25
Keep
मेघविश्रान्तविच्छिन्नपताकापटचामरः ।
यन्त्रपाषाणचक्रौघदूरविद्रुतखेचरः
26
Keep
मरणव्यग्रकृत्ताङ्गयोधाक्रन्दातिघर्घरः ।
कुठाराघातसंघातविदलन्मस्तकव्रजः
27
Keep
दूरोड्डीनकचत्खड्गखण्डतारकिताम्बरः ।
शक्तिनिर्मुक्तशक्त्यौघविभिन्नेभावृतावनिः
28
Keep
सैन्यव्याकुलवेतालललनोन्मुक्तमुद्गरः ।
गगनोत्तम्भितोत्तुङ्गशूरतोमरतोरणः
29
Keep
भुशुण्डीभग्नखड्गौघखण्डालीव्योमकुन्तलः ।
कुन्तवेणुवनन्यस्ततापाम्बरकचच्छविः
30
Keep
खड्गर्ष्टिवृष्टिसंपुष्टराजपूजितसैनिकः ।
शूलोत्तम्भितसच्छूरग्रहणोद्यमिताप्सराः
31
Keep
गदातुषारविगलत्स्फुरिताङ्गददिङ्मुखः ।
प्रासप्रसभसंपिष्टकष्टचेष्टतयोत्कटः
32
Keep
चक्रक्रकचसंचारच्छिन्नाश्वनरवारणः ।
परशुव्रातसंपातपतत्समदवारणः
33
Keep
लकुटोल्लोडनोड्डीनप्रोड्डामरचटद्भटः ।
यन्त्रपाषाणसंपातपिष्टकेतुरथद्रुमः
34
Keep
करवालविलूनाग्रच्छत्रपङ्कजपाण्डुरः ।
क्षेपणक्षोभसंक्षीणसैन्यक्षोभोऽप्यलक्षणः
35
Keep
कबन्धबन्धसंनेतृपातसंपिष्टपार्श्वगः ।
साङ्कुशाङ्कितसंख्यस्थवीरवारितवारणः
36
Keep
परशुव्रातसंपातपतत्समदवारणः ।
पाशाप्राशिविशेषज्ञवीरातिपरिदेवनः
37
Keep
क्षुरिकाकुक्षिनिर्भेदगलत्पद्मपतज्जनः ।
त्रिशूलवलनोन्मत्तशूवरसंकरनर्ततः
38
Keep
धावद्धानुष्कसंपूर्णकुलकूजितकाकलिः ।
भिन्दिपालसटाटोपहुंकारारभटीनटः
39
Keep
वज्रमुष्टिविनिष्पिष्टपिष्टसद्भटसंकटः ।
श्येनवद्व्योमपदवीप्रोत्पतत्पटुपट्टिशः
40
Keep
अङ्कुशाकृष्टशूरेशरथेभहयकेतनः ।
हलाहलिहतालूनहेलाकुलकुलाचलः
41
Keep
सुतालोत्तालकुद्दालनिखातवनभूतलः ।
धनुर्द्विगुणमात्रास्तलूनलोकशिलावलिः
42
Keep
क्रकचोभयपार्श्वेभच्छिन्नमत्तमतङ्गजः ।
संग्रामोलूखलक्षुण्णलोकतण्डुलमौसली
43
Keep
अस्त्राभाशृङ्खलाजालबद्धसेनाविहङ्गमः ।
लोलासिवीरनिस्त्रिंशनीतवादिगृहाङ्गणाः
44
Keep
गणशो नीयमानाग्र्यश्वापदारावनिर्भरः ।
नखाङ्गुष्ठखनत्पुङ्खप्रेङ्खारणरणारवैः
45
Keep
मरिचैर्व्यञ्जनानीव रञ्जयन्सकलारवान् ।
सैन्यनिक्षिप्तकुम्भाग्निदग्धयोधेरितायुधः ।
सैन्यनिक्षिप्तकुम्भाग्निदग्धयोधोज्झितायुधः
46
Keep
सैन्यनिक्षिप्तकुम्भस्थतप्ताङ्गारहतेक्षणः ।
सैन्यनिक्षिप्तकुम्भस्थविषवारिदलज्जनः
47
Keep
नाराचवर्षवरवारिदवीरपूर-
मत्ताभ्रसंभ्रमसनृत्तकबन्धबर्ही ।
कल्पान्तकाल इव वेगविवर्तमान-
मातङ्गशैलवलितो रणसंभ्रमोऽभूत्
Previous
←
Sarga 32
Next
Sarga 34
→