Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 38
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
एवमत्याकुले युद्धे सास्फोटभयसंकुले ।
आदित्ये तमसा वृद्धे चटत्कठिनकङ्कटे
2
Keep
वहत्यम्बूत्पतन्तीषु पतन्तीष्वश्मवृष्टिषु ।
नदीषु क्षेपणाच्छासु वरकेष्वब्जपङ्क्तिषु
3
Keep
मिथः फलाग्रकाटोत्थवह्निसीकरिणीषु च ।
आयान्तीषु प्रयान्तीषु दूरं शरनदीषु च
4
Keep
वहल्लूनशिरःपद्मचक्रावर्तैस्तरङ्गितैः ।
खार्णवे पूरिते हेतिवृन्दमन्दाकिनीगणैः
5
Keep
समीरणरणत्क्वाणशस्त्रपूर्णघनैर्घनैः ।
संदेहान्तेषु सिद्धेषु कपिकच्छव्यथाप्रदैः
6
Keep
अष्टभागदशाशेषप्रतापमधुराकृति ।
शस्त्रघातौजसा वीर इवाहस्तनुतां ययौ
7
Keep
श्रान्ताश्वेभाः प्रभग्नाश्च हेतिसंघातदीप्तयः ।
दिवसेन समं सेना ययुर्मन्दप्रतापताम्
8
Keep
अथसेनाधिनाथाभ्यां विचार्य सहमन्त्रिभिः ।
दूताः परस्परं वृत्ता युद्धं संह्रियतामिति
9
Keep
तत्र श्रमवशान्मन्दयन्त्रशस्त्रपराक्रमैः ।
रणसंहरणं काले सर्वैरेवोररीकृतम्
10
Keep
ततो महारथोत्तुङ्गकेतुप्रान्तकृतास्पदम् ।
बलयोरारुहोहैक एको योधो ध्रुवो यथा
11
Keep
सोंऽशुकं भ्रामयामास सर्वदिङ्मण्डले सितम् ।
श्यामेव दीर्घशुद्धांशुं युद्धं संह्रियतामिति
12
Keep
ततो दुन्दुभयो नेदुः प्रतिध्वनितदिङ्मुखाः ।
महाप्रलयसंशान्तौ पुष्करावर्तका इव
13
Keep
शरादिहेतिसरितो विस्तीर्णे गगने स्थिते ।
प्रवृत्ताः सुखमागन्तुं सरसः सरितो यथा
14
Keep
योधदोर्द्रुमसंचारस्तनुतामाययौ शनैः ।
भूकम्पान्ते वनस्पन्द इवाभ्रान्त इवार्णवः
15
Keep
विनिर्गन्तुं प्रववृते रणादथ बलद्वयम् ।
वारिपूरश्चतुर्दिक्षु प्रलयैकार्णवादिव
16
Keep
उत्क्षिप्तमन्दरक्षीरसमुद्रवदनाकुलम् ।
सैन्यं प्रशाम्यदावर्तं शनैः साम्यमुपाययौ
17
Keep
क्रमेणासीन्मुहूर्तेन विकटोदरभीषणम् ।
अगस्त्यपीतार्णववच्छून्यमेव रणाङ्गणम्
18
Keep
शवसन्ततिसंपूर्णं वहद्रक्तनदाकुलम् ।
परिकूजनझङ्कारपूर्णझिल्लिवनोपमम्
19
Keep
बहद्रक्तसरित्स्रोतस्तरङ्गारवघर्घरम् ।
साक्रन्दार्धमृताहूतसप्राणव्यग्रमानवम्
20
Keep
मृतार्धमृतदेहौघसृतासृक्प्लुतनिर्झरम् ।
सजीवनरपृष्ठस्थशवस्पन्दनभ्रान्तिदम्
21
Keep
करीन्द्रशवराश्यग्रविश्रान्ताम्बुदखण्डकम् ।
विशीर्णरथसंघातं वातच्छिन्नमहावनम्
22
Keep
वहद्रक्तनदीरंहःप्रोह्यमानहयद्विपम् ।
शरशक्त्यृष्टिमुसलगदाप्रासासिसंकुलम्
23
Keep
पर्याणावनसंनाहकवचावृतभूतलम् ।
केतुचामरपट्टौघगुप्तं शवशरीरकम्
24
Keep
फणास्फुटकतूणीरकुञ्जकूजत्समीरणम् ।
शवराशिपलालौघतल्पसुप्तपिशाचकम्
25
Keep
मौलिहाराङ्गदद्योतशक्रचापवनावृतम् ।
श्वशृगालकराकृष्टसान्द्रान्त्रादीर्घरज्जुकम्
26
Keep
रक्तक्षेत्रक्वणत्किंचिच्छेषजीवनृदन्तुरम् ।
रक्तकर्दमनिर्मग्नसजीवनरदर्दुरम्
27
Keep
वराङ्गकवचप्रख्यनिर्गताक्षिशतोच्चयम् ।
वहद्भुजोरुकाष्ठौघघोररक्तसरिच्छतम्
28
Keep
साक्रन्दवन्धुवलितं मृतार्धमृतमानवम् ।
शरायुधरथाश्वेभपर्याणासंवरान्तरम्
29
Keep
नृत्यत्कबन्धदोर्दण्डमण्डलानमिताम्बरम् ।
मदमेदोवसागन्धपीडार्द्रघ्राणकोटरम्
30
Keep
उत्ताल्वर्धमृतेभाश्ववार्यमाणाल्पजीवितम् ।
वहद्रक्तनदीवीचिप्रहारहतदुन्दुभि
31
Keep
उह्यमानमृतेभाश्वमकरासृक्सरिच्छतम् ।
म्रियमाणनरानीकफूत्कृतासृक्प्रणालिकम्
32
Keep
स्वल्पजीवशरापूर्णमुखदृक्कान्तितस्वनम् ।
पिण्डभार्यावसागन्धवातान्तोत्पीठलोहितम्
33
Keep
उन्नासार्धमृतेभेन्द्रकराक्रान्तकबन्धकम् ।
निरधिष्ठितहस्त्यश्वपातितोच्चकबन्धकम्
34
Keep
रुदत्क्रन्दत्परिभ्रष्टशवक्षुब्धासृगुद्धति ।
मृतभर्तृगले शस्त्रत्यक्तप्राणकुलाङ्गनम्
35
Keep
सेनोत्क्रान्तततक्षिप्रबहुपान्थपरीक्षणम् ।
शवहारकराकृष्टसप्राणानुचराकुलम्
36
Keep
केशशैवालवक्राब्जचक्रावर्तनदीशतम् ।
तरत्तुङ्गतरङ्गाढ्यवहद्रक्तमहानदम्
37
Keep
अङ्गलग्नायुधोद्धारव्यग्रार्धमृतमानवम् ।
विदेशमृतसाक्रन्दहुताङ्गगजवाजिनम्
38
Keep
प्राणान्तस्मृतपुत्रेष्टमातृदेवपराभिधम् ।
हाहाहीहीतिकथितमर्मच्छेदनवेदनम्
39
Keep
म्रियमाणमथौजिष्ठद्विष्टप्रारब्धसंचयम् ।
दन्तियुद्धासमर्थाग्रमृतदेहेष्टदैवतम्
40
Keep
म्रियमाणमहावज्ञाशूराश्रितपलायनम् ।
अशङ्कितासृगावर्तभीमास्पदगमोत्सुकम्
41
Keep
मर्मच्छेदशराघातव्यथाविदितदुष्कृति ।
कबन्धबन्धप्रारब्धवेतालवदनाक्रमम्
42
Keep
उह्यमानध्वजच्छत्रचारुचामरपङ्कजम् ।
किरत्संध्यारुणं दिक्षु तेजस्कं रक्तपङ्कजम्
43
Keep
रथचक्रधरावर्तं रक्तार्णवमिवाष्टमम् ।
पताकाफेनपुञ्जाढ्यं चारुचामरबुद्बुदम्
44
Keep
विपर्यस्तरथं भूमिपङ्कमग्नपुरोपमम् ।
उत्पातवातनिर्धूतद्रुमं वनमिवाततम्
45
Keep
कल्पदग्धजगत्प्रख्यं मुनिपीतार्णवोपमम् ।
अतिवृष्टिहतं देशमिव प्रोज्झितमानवम्
46
Keep
कलापकुन्तवलितं भुशुण्डीमण्डलाकुलम् ।
मत्तनागशताकारशवतोमरमुद्गरम्
47
Keep
शिलाशिखरसंजाततालजालमिवाततम् ।
तरद्रक्तनदीतीरजातकुन्तोन्नतद्रुमम्
48
Keep
नागांसस्यूतहेत्योघवृक्षांशुकुसुमाकुलम् ।
कङ्ककृष्टान्त्ररसनावृन्दजालकिताम्बरम्
49
Keep
असृक्सरित्तीरजातकुन्तोन्नतवनद्रुमम् ।
असृक्सरोवरोर्ध्वस्थपताकानलिनीगणम्
50
Keep
रक्तकर्दमनिर्मग्ननराहूतसुहृज्जनम् ।
करीन्द्रकुणपापातनिर्यद्भग्नजनेक्षितम्
51
Keep
हेतिलूनलतैर्वृक्षैः संदिग्धार्धकबन्धकम् ।
असृङ्गदीवहद्धस्तिकटकर्पटनौगणम्
52
Keep
रक्तस्रोतःस्फुरच्छुक्लवस्त्रडिण्डीरपिण्डकम् ।
संचारनियतक्षिप्रभृत्यविच्छिन्नमानवम्
53
Keep
इतश्चेतश्च निपतत्कबन्धरवदानवम् ।
ऊर्ध्वस्थूलाक्षचक्रौघच्छिन्नसैन्यद्रवज्जनम्
54
Keep
रक्तनिःस्वनभाङ्कारफेत्कारार्धमृतारवम् ।
शिलामुखललद्रक्तधाराधूतरजःखगम्
55
Keep
सुतालोत्तालवेतालतालताण्डवसंकटम् ।
पर्यस्तरथदार्वन्तरर्धान्तरितसद्भटम्
56
Keep
अन्तस्थसज्जीवभटस्पन्दिस्पन्दनभीतिदम् ।
रक्तकर्दमपूर्णास्यकिंचिज्जीवकृपाच्छवम्
57
Keep
किंचिज्जीवनरोद्ग्रीवदुःखदृष्टश्ववायसम् ।
एकामिषोत्कक्रव्यादयुद्धकोलाहलाकुलम् ।
एकामिषार्थयुद्धेहामृतक्रव्यादसंकुलम्
58
Keep
विवृत्तासंख्याश्वद्विरदपुरुषाधीश्वररथ-
प्रकृत्तोष्ट्रग्रीवाप्रसृतरुधिरोद्गारसुसरित् ।
रणोद्यानं मृत्योस्तदभवदशुष्कायुधलतं
सशैलं कल्पान्ते जगदिव विपर्यस्तमखिलम्
Previous
←
Sarga 37
Next
Sarga 39
→