Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 39
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अथ वीर इवारक्तः कालेनास्तमितो रविः ।
अस्त्रतेजःपरिम्लानप्रतापोऽब्धौ समुज्झितः
2
Keep
रणरक्तरुचिर्व्योमदर्पणप्रतिबिम्बिता ।
जहौ सूर्यशिरश्छेदे संध्यालेखोदभूत्क्षणम्
3
Keep
भूपातालनभोदिग्भ्यः प्रलयब्धिजलौघवत् ।
समाजग्मुस्तनत्ताला वेताला वलया इव
4
Keep
मृष्टध्वान्तासिवलिते दिननागेन्द्रमस्तके ।
संध्यारागारुणं कीर्णं तारानिकरमौक्तिकम्
5
Keep
निःसत्त्वेषु तमोन्धेषु रसनारसशालिषु ।
संकोचमाययुः पद्मामृतानां हृदयेष्विव
6
Keep
मीलत्पक्षाः क्षणात्सुप्ताः कृच्छ्रप्रोच्छ्रितकन्धराः ।
कुलायेषु खगा आसञ्छवाङ्गेष्विव हेतयः
7
Keep
आसन्नचन्द्रसुभगा लोकाः कुसुमपङ्क्तयः ।
उल्लसद्धृदया जाता वीरपक्षेष्विव श्रियः
8
Keep
रक्तवारिमयी सायमङ्गगुप्तशिलीमुखा ।
संकुचद्वक्त्रपद्माभूद्रणभूमिरिवाब्जिनी
9
Keep
उपर्यभूद्व्योमसरस्ताराकुमुदमण्डितम् ।
अधस्त्वभूद्वारिसरः स्फुरत्कुमुदतारकम्
10
Keep
तमस्यपेतभीतानि भूतानि मिलितान्यलम् ।
पयांसीव विसेतूनि प्रसृतानि दिशं प्रति
11
Keep
आसीद्रणाङ्गणं गायद्वेतालकुलसंकुलम् ।
क्वणत्कङ्कालकाङ्कस्थकङ्ककाकोलकेलिमत्
12
Keep
अथ काष्ठचिताज्वालसताराम्बरभास्वरम् ।
पचत्पचपचाशब्दिमेदोमांसमयानलम्
13
Keep
सर्वाङ्गास्थिस्फुटास्फोटस्फुटच्चितिचयोन्मुखम् ।
वेतालललनारब्धजललीलातिरोहितम्
14
Keep
श्वकाकयक्षवेतालतालकोलाहलोल्बणम् ।
गमागमेन भूतानां समुड्डीनवनोपमम्
15
Keep
रक्तमांसवसामेदोहरणव्यग्रडाकिनि ।
चर्वितासृग्वसामांसस्रवत्सृक्किपिशाचकम्
16
Keep
मध्यमध्यचितालोकप्रकटासृक्शवव्रजम् ।
विरूपिकानीयमानस्वांसन्यस्तमहाशवम्
17
Keep
उत्ताण्डवोग्रकुम्भाण्डमण्डलोड्डामरोदरम् ।
छमिच्छमित्प्रलापान्तं मेदोसृग्वाष्पसाम्बुदम्
18
Keep
वहद्रक्तनदीरंहोरूढभूचररूपिकम् ।
वेतालकुलकङ्कालकर्षणाकुलकाकलम्
19
Keep
मृतेभोदरमञ्जूषासुप्तवेतालबालकम् ।
विविक्तैकरणोद्देशपानक्रीडास्थराक्षसम्
20
Keep
मत्तवेतालकलहचितालातरणोज्ज्वलम् ।
वहद्रक्तवसामिश्रगन्धबन्धुरमारुतम्
21
Keep
रूपिकापेटिकावान्तारणद्रटरटारवम् ।
अर्धपक्वशवास्वादलुब्धयक्षोल्लसत्कलि
22
Keep
तुङ्गवङ्गकलिङ्गाङ्गतङ्गणाङ्गलगत्खगम् ।
तारापातोपमहसत्संमुखज्वालरूपिकम्
23
Keep
पतद्वेतालसोल्लासमध्यस्थासृग्विरूपिकम् ।
पिशाचाकर्णिताभ्यर्णयोगिनीगणनायकम्
24
Keep
प्रसृतान्त्रमहातन्त्रीप्रायसंपन्नवादनम् ।
पिशाचवासनोत्क्रान्तपिशाचीभूतमानवम्
25
Keep
रूपिकालोकनापूर्वत्रासार्धमृतसद्भटम् ।
क्वचिद्वेतालरक्षोभिरपरीपूर्णमद्रकम्
26
Keep
स्वरूपिकास्कन्धपतच्छवत्रस्तनिशाचरम् ।
नभःसंघट्टितापूर्वभूतपेटकसंकटम्
27
Keep
अतिप्रयत्नापहृतम्रियमाणनरामिषम् ।
स्वभक्ष्यापेक्षपक्षेषु विक्षिप्तशवराशिवत्
28
Keep
शिवामुखानलशिखाखण्डोत्थमितिरक्तगैः ।
समुड्डीननवाशोकपुष्पगुच्छमिवाभितः
29
Keep
कबन्धकन्धराबन्धव्यग्रवेतालबालकम् ।
यक्षरक्षःपिशाचादिकचदाकाशगोल्मुकम्
30
Keep
आकाशभूधरनिकुञ्जगुहान्तराल-
पिण्डोपमण्डिततमोम्बुदपीठपूरम् ।
व्यालोलभूतरभसाकुलकल्पवात-
व्याधूतलोककरकाण्डकपेटकल्पम्
Previous
←
Sarga 38
Next
Sarga 40
→