Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 59
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
सरस्वती तथेत्युक्त्वा तत्रैवान्तर्धिमाययौ ।
प्रभाते पङ्कजैः सार्धं बुबुधे सकलो जनः
2
Keep
आलिलिङ्ग च तां लीलां लीला च दयितं क्रमात् ।
पुनःपुनर्महानन्दान्मृतं प्रोज्जीवितं पुनः
3
Keep
तदासीद्राजसदनं मदमन्मथमन्थरम् ।
आनन्दमत्तजनतं वाद्यगेयरवाकुलम्
4
Keep
जयमङ्गलपुण्याहघोषघुंघुमघर्घरम् ।
तुष्टपुष्टजनापूर्णं राजलोकवृताङ्गणम्
5
Keep
सिद्धविद्याधरोन्मुक्तपुष्पवर्षसहस्रभृत् ।
ध्वनन्मृदङ्गमुरजकाहलाशङ्खदुन्दुभि
6
Keep
ऊर्ध्वीकृतबृहद्धस्तहास्तिकस्तनितोत्कटम् ।
उत्तालताण्डवस्त्रैणपूर्णाङ्गणलसद्ध्वनि
7
Keep
मिथःसंघट्टनिपतज्जनोपायनदन्तुरम् ।
पुष्पशेखरसंभारमयसंसारसुन्दरम्
8
Keep
विकीर्णापादितक्षौमं मन्त्रिसामन्तनागरैः ।
स्थूलपद्ममयं व्योम रक्तैस्ताण्डविनीकरैः
9
Keep
मत्तस्त्रीकन्धरावृत्तलीलान्दोलितकुण्डलम् ।
प्रवृत्तपादसंपातप्रोल्लसत्पुष्पकर्दमम्
10
Keep
पट्टवासःशरन्मेघवितानकवितानकम् ।
वराङ्गनामुखैर्नृत्यच्चन्द्रलक्षगृहाजिरम्
11
Keep
परलोकादुपानीता राज्ञी सा पतिरेव च ।
इति निर्वृत्तगाथाभिर्जगुर्देशान्तरे जनाः
12
Keep
पद्मो भूमिपतिः श्रुत्वा वृत्तान्तं कथितं मनाक् ।
चक्रे स्नानं समानीतैश्चतुःसागरवारिभिः
13
Keep
ततोऽभिषिषिचुर्विप्रा मन्त्रिणो भूभुजश्च तम् ।
लब्धोदयमनन्तेहममरेन्द्रमिवामराः
14
Keep
लीला लीला च राजा च जीवन्मुक्तमहाधियः ।
रेमिरे पूर्ववृत्तान्तकथनैः सुरतैरिव
15
Keep
सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत् ।
प्राप्तं लोकत्रयश्रेयः पद्मेनेति महीभुजा
16
Keep
स ज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः ।
चक्रे वर्षायुतान्यष्टौ तत्र राज्यमनिन्दितः
17
Keep
जीवन्मुक्तास्त इत्येवं राज्यं वर्षायुताष्टकम् ।
कृत्वा विदेहमुक्तत्वमासेदुः सिद्धसंविदः
18
Keep
यदुदयविशदं विदग्धमुग्धं
समुचितमात्महितं च पेशलं च ।
तदखिलजनतोषदं स्वराज्यं
चिरमनुपाल्य सुदंपती विमुक्तौ
Previous
←
Sarga 58
Next
Sarga 60
→