Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 60
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
एतत्ते कथितं राम दृश्यदोषनिवृत्तये ।
लीलोपाख्यानमनघं घनतां जगतस्त्यज
2
Keep
शान्तैव दृश्यसत्तास्याः शमनं नोपयुज्यते ।
सतो हि मार्जनक्लेशो नासतस्तु कदाचन
3
Keep
ज्ञानेनाकाशरूपेण दृश्यं ज्ञेयस्वरूपकम् ।
इत्येकीभूतमालोक्य ज्ञस्तिष्ठत्यम्बरोपमः
4
Keep
पृथ्व्यादिरहितेनेदं चिद्भासैव स्वयंभुवा ।
साधितं यदि सिद्धेन ततः स्वात्मनि साधितम्
5
Keep
संविद्यथा या यतते तथा सैव व्यवस्थिता ।
विसृष्टा सृष्टिविन्नद्यां यावद्यत्नान्न रोधिता
6
Keep
चिदाकाशावभासोऽयं जगदित्यवबुध्यते ।
चिद्व्योम्न्येवात्मनि स्वच्छे परमाणुकणं प्रति
7
Keep
एवमस्या मुधाभ्रान्तेः का सत्ता केव वासना ।
का वास्था का च नियतिः कावश्यंभावितोच्यताम्
8
Keep
सर्वं चैतद्यथादृष्टं स्थितमित्थमखण्डितम् ।
मायैवेयमनन्तेयं न च मायास्ति काचन
9
Keep
अहो नु परमा दृष्टिर्दर्शिता भगवंस्त्वया ।
दावाग्निदग्धकक्षाणां दाहशान्तौ कलैन्दवी
10
Keep
अहो नु सुचिरेणाद्य ज्ञातं ज्ञातव्यमक्षतम् ।
मया यथेदं यच्चेदं यादृग् ज्ञेयं यतो यदा
11
Keep
शाम्यामीव द्विजश्रेष्ठ निर्वामीव विकल्पयन् ।
एतदाख्यानमाश्चर्यं व्याख्यानं शास्त्रदृष्टिषु
12
Keep
इमं मे भगवन्ब्रूहि संशयं सर्वकोविद ।
तव पातुं न तृप्तोऽस्मि श्रोत्रपात्रैर्वचोमृतम्
15
Keep
स सर्गत्रितये कालो लीलाभर्तुर्हि योगतः ।
स क्वचित्किमहोरात्रः क्वचित्किं मासमात्रकः
14
Keep
क्वचित्किं बहुवर्षाणि कस्यचित्किमु पेलवः ।
कस्यचित्किं महादीर्घः कस्यचित्किं क्षणः स्थितः
15-2
Keep
इति मे भगवन्बूहि त्वं यथावदनुग्रहात् ।
सकृच्छ्रुतं न विश्रान्तिमेति लोष्टे यथा जलम्
16
Keep
येन येन यथा यद्यद्यदा संवेद्यतेऽनघ ।
तेन तेन तथा तत्तत्तदा समनुभूयते
17
Keep
अमृतत्वं विषं याति सदैवामृतवेदनात् ।
शत्रुर्मित्रत्वमायाति मित्रसंवित्तिवेदनात्
18
Keep
यथा भावितमेतेषां पदार्थानां निजं वपुः ।
तदेव हि चिराभ्यासान्नियतेर्वशमायतम्
19
Keep
कचनैकात्मिकैषा चिद्यथा कचति यादृशम् ।
तथा तथाशु भवति तत्स्वभावैककारणात्
20
Keep
निमेषे यदि कल्पौघसंविदं परिविन्दति ।
निमेष एव तत्कल्पो भवत्यत्र न संशयः
21
Keep
कल्पे यदि निमेषत्वं वेत्ति कल्पोऽप्यसौ ततः ।
निमेषीभवति क्षिप्रं तादृग्रूपात्मिका हि चित्
22
Keep
दुःखितस्य निशा कल्पः सुखितस्यैव च क्षणः ।
क्षणः स्वप्ने भवेत्कल्पः कल्पश्च भवति क्षणः
23
Keep
यथा च मृत्वा जातोऽहं तरुणो यौवनस्थितः ।
यातोऽस्मि योजनशतं स्वप्न इत्यनुभूयते
24
Keep
रात्रिं द्वादशवर्षाणि हरिश्चन्द्रोऽनुभूतवान् ।
लवणो भुक्तवानायुरेकरात्र्या समाः शतम्
25
Keep
यन्मुहूर्तः प्रजेशस्य स मनोर्जीवितं मुनेः ।
जीवितं यद्विरिञ्चस्य तद्दिनं किल चक्रिणः
26
Keep
विष्णोर्यज्जीवितं राम तद्वृषाङ्कस्य वासरः ।
ध्यानप्रक्षीणचित्तस्य न दिनानि न रात्रयः
27
Keep
न पदार्था न च जगत्सत्यमात्मनि योगिनः ।
मधुरं कटुतामेति कटुभावेन चिन्तितम्
28
Keep
कटु चायाति माधुर्यं मधुरत्वेन चिन्तितम् ।
मित्रबुद्ध्या द्विषन्मित्रं रिपुबुद्ध्या रिपुः सुहृत्
29
Keep
भवतीति महाबाहो यथासंवेदनं जगत् ।
अनभ्यस्ताः पदार्था ये शास्त्रपाठजपादयः
30
Keep
तेषां संवेदनाभ्यासान्नूनमभ्येति साम्यता ।
नौयायिनां भ्रमार्तानां वेदनाद्भूर्विवर्तते
31
Keep
अवेदनाभ्रमार्तानामपि नैषां विवर्तते ।
शून्यमाकीर्णतामेति वेदनात्स्वप्नदृक्ष्विव
32
Keep
वेदनात्पीतमानीलं शुक्लं वाप्यनुभूयते ।
आपद्वदुत्सवः खेदं करोति परिमोहतः
33
Keep
कुड्येऽपि ख इवाचारो दृष्टो नन्वविचारिणः ।
असद्यक्षो विमूढानां प्राणानप्यपकर्षति
34
Keep
वेदनात्स्वप्नवनिता जाग्रतीव रतिप्रदा ।
यद्यथाभासमायातं तत्तथा स्थिरतां गतम्
35
Keep
असदेव नभश्चैव नभ एव चिदात्मनि ।
शतहस्ताम्बुदच्छायानटनृत्तमिवाततम्
36
Keep
गगने मानसं स्पन्दं जगद्विद्धि न वस्तु तत् ।
मिथ्याज्ञानपिशाचस्य स्पन्ददर्शनमाकृति
37
Keep
मायामात्रकमेवेदमरोधकमभित्तिमत् ।
इदं भास्वरमाभातं स्वप्नसंदर्शनं स्थितम्
38
Keep
अपूर्वमेवासुप्तस्य नरस्येवोदितं विदुः ।
अचेता चेतति स्तम्भो यादृशं शालभञ्जिकाम्
39
Keep
परमार्थमहास्तम्भः सृष्टिं चेतति सादृशम् ।
यादृशो मे नरः पार्श्वे स्वप्ने क्षुब्धो महाभटैः
40
Keep
तादृशो ब्रह्मणः स्वर्गो बुद्ध एव सुषुप्तवत् ।
तृणगुल्मलतायुक्तः शिशिरान्ते यथा रसः
41
Keep
वासन्तः संस्थितो भूमौ तथा सर्गः परे पदे ।
यथा द्रवत्वं कनके स्थितमन्तरनुन्मिषत्
42
Keep
तथा स्थितः परे सर्ग आत्मवर्गादणावणौ ।
संनिवेशो यथाङ्गानामङ्गिनोऽनन्य आत्मनः
43
Keep
जगदेवमनङ्गस्य स्वात्मनो ब्रह्मणस्तथा ।
यादृगेकनरः स्वप्ने युद्धमन्यं नरं प्रति
44
Keep
तादृशं सदसद्रूपं स्वात्मेदं व्योमगं जगत् ।
महाकल्पान्तसर्गादौ चित्स्वभावमिदं जगत्
45
Keep
कारणत्वं मिथः पश्चादसदेति न वास्तवम् ।
मुक्तेऽस्मिन्ब्रह्मणि यदि ब्रह्मान्यः स्मृतिजो भवेत् ।
तत्स्मृतिज्ञप्तिजे सर्गे स्थितैव ज्ञप्तिमात्रता
46
Keep
पौराणां मन्त्रिमुख्यानां विदूरथकुलक्रमः ।
सममेव कथं तत्र सर्वेषां प्रतिभासितः
47
Keep
चितः समनुवर्तन्ते मुख्यायाः सर्वसंविदः ।
यथा विपुलवात्यायाः सामान्या वातलेखिकाः
48
Keep
परस्परानुसारेण तथारूपेण संविदः ।
कचितास्ताः प्रजापालप्रजावास्तव्यमन्त्रिणः
49
Keep
एवंरूपात्कुलाज्जातो राजास्माकमयं त्वसौ ।
कचिता इव वास्तव्यविदो वैदूरथे पुरे
50
Keep
कचने चित्स्वभावस्य न च कारणमार्गणम् ।
युक्तं महामणेर्भासामिवान्यत्र स्वभावतः
51
Keep
अहमेवं कुलाचारे राजा स्यामेवमित्यपि ।
विदूरथविदो रत्नादुदिता प्रतिभा यथा
52
Keep
यावन्तो जन्तवो यस्मिन्ये ये सर्गे यदा यदा ।
ते सर्वगत्वाच्चिद्धातोरन्योन्यादर्शतां गताः
53
Keep
तीव्रवेगवती या स्यात्तत्र संविदकम्पिता ।
सैवायाति परं स्थैर्यमामोक्षं त्वेकरूपिणी
54
Keep
बलवच्चिद्विलासानामनुवृत्त्या परस्परम् ।
स्वभावाः प्रतिबिम्बन्ति चिदादर्शे स्वभावतः
55
Keep
तत्रातियत्नाज्जयति सत्याः संविद आत्मसात् ।
कुर्वन्ति सरिदम्भोधिगामिनी सरितो यथा
56
Keep
ये समास्तत्र ते तावद्यतन्ते चित्स्वभावतः ।
यावदेको जयत्यत्र द्वितीयः स निमज्जति
57
Keep
जायमानेषु नश्यत्सु वर्तमानेषु भूरिशः ।
एवं सर्गसहस्रेषु परमाणुकणं प्रति
58
Keep
न किंचित्केनचिद्ध्याप्तं न किंचित्केनचित्स्थितम् ।
चिदाकाशमिदं शान्तमतः सर्वमभित्तिमत्
59
Keep
अयमाभासते स्वप्नो निर्निद्रो दृष्टिवर्जितः ।
अवश्यंभाविबोधस्तु स्वनुभूतोऽप्यसन्मयः
60
Keep
पत्रपुष्पफलांशात्मा यथैकः स्वास्थितो द्रुमः ।
अनन्तसर्वशक्त्यात्मा ह्येक एव तथा विभुः
61
Keep
मातृमेयप्रमाणादिमायात्मकमजं पदम् ।
बुद्धं विस्मृतिमायाति न कदाचन कस्यचित्
62
Keep
शून्योदयास्तमयवस्तु तमःप्रकाशं
दिक्कालरूप्यपि सदैकमनादिशुद्धम् ।
आद्यन्तमध्यरहितं स्थितमच्छमम्बु
सौम्यत्ववीचिवलनाढ्यमिवैकमेव
63
Keep
अहंत्वमित्यादिजगत्स्वरूपा
विशुद्धबोधैकविभा विभाति ।
आकाशकोशे निजशून्यतेव
द्वैतैक्यसंकल्पविकल्पनाच्च
Previous
←
Sarga 59
Next
Sarga 61
→