Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 63
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
यदेतद्ब्रह्मतत्त्वं सर्वथा सर्वदैव सर्वत एव सर्व-
शक्ति सर्वाकारं सर्वेश्वरं सर्वगं सर्वमेवेति
2
Keep
एष त्वात्मा सर्वशक्तित्वाच्च क्वचिच्चिच्छक्तिं प्रक-
टयति क्वचिच्छान्तिं क्वचिज्जडशक्तिं क्वचिदुल्लासं
क्वचित्किंचिन्न किंचित्प्रकटयति
3
Keep
यत्र यदा यदेवासौ यथा भावयति तत्र तदा
तदेवासौ प्रपश्यति
4
Keep
सर्वशक्तेर्हि या यैव यथोदेति तथैव सा
5
Keep
तदास्ति शक्तिर्नानारूपिणी सा स्वभावत इमाः
शक्तयोऽयमात्मेति
6
Keep
एवं विकल्पजालं व्यवहारार्थं धीमद्भिः परिक-
ल्पितं लोके नत्वात्मनि विद्यते भेदः
7
Keep
यथोर्मितरङ्गपयसां सागरे कटकाङ्गदकेयूरैर्वा
हेम्नः ।
अवयवावयविनोः संवित्काल्पनिकी द्विता
न वास्तवी
8
Keep
यथा यच्चेत्यते हि तथैव तन्न बाह्यतो नान्तरत-
श्चैतत्समुदेति हि
9
Keep
सर्वात्मत्वात्समाभासं क्वचित्किंचित्प्रपश्यति
10
Keep
सर्वाकारमयं ब्रह्मैवेदं ततं मिथ्याज्ञानवद्भिः
शक्तिशक्तिमत्त्वे अवयवावयविरूपे कल्पिते न पार-
मार्थिके
11
Keep
सद्वा भवत्वसद्वा चिद्यत्संकल्पयत्यभिनिविशति
तत्तत्पश्यति सकला तत्सद्ब्रह्मैव चिद्भाति
Previous
←
Sarga 62
Next
Sarga 64
→