Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 62
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
परमाणुनिमेषाणां लक्षांशकलनास्वपि ।
जगत्कल्पसहस्राणि सत्यानीव विभान्त्यलम्
2
Keep
तेष्वप्यन्तस्तथैवान्तः परमाणुकणं प्रति ।
भ्रान्तिरेवमनन्ताहो इयमित्यवभासते
3
Keep
वहन्तीमाः पराः सत्ताः शान्ताः सर्गपरम्पराः ।
सलिलद्रवतेवान्तःस्फुटावर्तविवर्तिका
4
Keep
मिथ्यात्मिकैव सर्गश्रीर्भवतीह महामरौ ।
तीरद्रुमलतोन्मुक्तपुष्पालीव तरङ्गिणी
5
Keep
स्वप्नेन्द्रजालपुरवत्संकथेहापुराद्रिवत् ।
संकल्पवदसत्यैव भाति सर्गानुभूतिभूः
6
Keep
एकात्मैकतयैवं हि जाते सम्यग्विचारणात् ।
निर्विकल्पात्मविज्ञाने परे ज्ञानवतां वर
7
Keep
किमर्थमिह तिष्ठन्ति देहास्तत्त्वविदामपि ।
दैवेनैव समाक्रान्ता दैवमत्र च किं भवेत्
8
Keep
अस्तीह नियतिर्ब्राह्मी चिच्छक्तिः स्पन्दरूपिणी ।
अवश्यभवितव्यैकसत्ता सकलकल्पगा
9
Keep
आदिसर्गे हि नियतिर्भाववैचित्र्यमक्षयम् ।
अनेनेत्थं सदा भाव्यमिति संपद्यते परम्
10
Keep
महासत्तेति कथिता महाचितिरिति स्मृता ।
महाशक्तिरिति ख्याता महादृष्टिरिति स्थिता
11
Keep
महाक्रियेति गदिता महोद्भव इति स्मृता ।
महास्पन्द इति प्रौढा महात्मैकतयोदिता
12
Keep
तृणानीव जगन्त्येवमिति दैत्याः सुरा इति ।
इति नागा इति नगा इत्याकल्पं कृतास्थितिः
13
Keep
कदाचिद्ब्रह्मसत्ताया व्यभिचारोऽनुमीयते ।
चित्रमाकाशकोशे च नान्यथा नियतेः स्थितिः
14
Keep
विरिञ्चयाद्यात्मभिर्बुद्धैर्बोधायाविदितात्मनाम् ।
ब्रह्मात्मैव सा नियतिः सर्गोऽयमिति कथ्यते
15
Keep
अचलं चलवद्दृष्टं ब्रह्मापूर्य व्यवस्थितः ।
अनादिमध्यपर्यन्तं सर्गो वृक्ष इवाम्बरे
16
Keep
पाषाणोदरलेखौघन्यायेनात्मनि तिष्ठता ।
ब्रह्मणा नियतिः सर्गो बुद्धोऽबोधवतेव खम्
17
Keep
देहे यथाङ्गिनोऽङ्गादि दृश्यते चित्स्वभावतः ।
ब्रह्मणा पद्मजत्वेन नियत्याद्यङ्गकं तथा
18
Keep
एषा दैवमिति प्रोक्ता सर्वं सकलकालगम् ।
पदार्थमलमाक्रम्य शुद्धा चिदिति संस्थिता
19
Keep
स्पन्दितव्यं पदार्थेन भाव्यं वा भोक्तृतापदम् ।
अनेनेत्थमनेनेत्थमवश्यमिति दैवधीः
20
Keep
एषैव पुरुषस्पन्दस्तृणगुल्मादि चाखिलम् ।
एषैव सर्वभूतादि जगत्कालक्रियादि वा
21
Keep
अनया पौरुषी सत्ता सत्तास्याः पौरुषेण च ।
लक्ष्यते भुवनं यावद्द्वे एकात्मतयैव हि
22
Keep
नरेण पौरुषेणैव कार्ये सत्तात्मके उभे ।
ईदृश्येतेन नियतिरेवं नियतिपौरुषे
23
Keep
प्रष्टव्योऽहं त्वया राम दैवपौरुषनिर्णयः ।
मदुक्तं पौरुषं पाल्यं त्वयेति नियतिः स्थिता
24
Keep
भोजयिष्यति मां दैवमिति दैवपरायणः ।
यत्तिष्ठत्यक्रियो मौनं नियतेरेष निश्चयः
25
Keep
न स्याद्बुद्धिर्न कर्माणि न विकारादि नाकृतिः ।
केवलं त्वित्थमाकल्पं स्थित्या भाव्यमिति स्थिताः
26
Keep
अवश्यंभवितव्यैषा त्विदमित्थमिति स्थितिः ।
न शक्यते लङ्घयितुमपि रुद्रादिबुद्धिभिः
27
Keep
पौरुषं न परित्याज्यमेतामाश्रित्य धीमता ।
पौरुषेणैव रूपेण नियतिर्हि नियामिका
28
Keep
अपौरुषं हि नियतिः पौरुषं सैव सर्गगा ।
निष्फलाऽपौरुषाकारा सफला पौरुषात्मिका
29
Keep
नियत्या मूकतामेत्य निष्पौरुषतयाऽक्रियम् ।
यस्तिष्ठति प्राणमरुत्स्पन्दस्तस्य क्व गच्छति
30
Keep
अथ प्राणक्रियारोधमपि कृत्वा विरामदम् ।
यदि तिष्ठति तत्साधुर्मुक्त एव किमुच्यते
31
Keep
पौरुषैकात्मता श्रेयो मोक्षोऽत्यन्तमकर्तृता ।
आभ्यां तु सबलः पक्षो निर्दुःखैव महात्मनाम्
32
Keep
नियतिर्ब्रह्मसत्ताभा तस्यां चेत्परिणम्यते ।
नूनं परमशुद्धाख्यं तत्प्राप्तैव परागतिः
33
Keep
एतैर्नियत्यादिमहाविलासै-
ब्रह्मैव विस्फूर्जति सर्वगात्मा ।
तृणादिवल्लीतरुगुल्मजालैः
सत्तेव तोयस्य धरान्तरस्था
Previous
←
Sarga 61
Next
Sarga 63
→