Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 68
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
राक्षस्योक्तं महाप्रश्नजालमावलिताखिलम्
2
Keep
अस्ति कज्जलपङ्काद्रेरिवोग्रा शालभञ्जिका ।
हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी
3
Keep
विषूचिकाभिधाना च नाम्नाप्यन्यायवाधिका ।
विन्ध्याटवीव देहेन शुष्का कार्श्यमुपागता
4
Keep
महाबलाग्निनयना रोदोरन्ध्रार्धपूरणी ।
नीलाम्बरधरा कृष्णा देहबद्धेव यामिनी
5
Keep
नीहारवसनच्छन्ना मेदुराभ्रशिरःपटा ।
लम्बाभ्रबिम्बोल्लसिता नित्योत्थतिमिरोर्ध्वजा
6
Keep
स्थिरविद्युल्लतानेत्रा तमालतरुजानुका ।
वैदूर्यशूर्पाग्रनखी भस्मनीहारहासिनी
7
Keep
निर्मांसनरदेहौघपुष्पस्रग्दामभूषिता ।
सर्वाङ्गोदात्तसंप्रोतशवमालाविराजिता
8
Keep
वेतालावेशविचलत्कालकङ्कालकुण्डला ।
अर्कादानोत्कदीर्घाग्रभीमोग्रभुजमण्डला
9
Keep
तस्या विपुलकायत्वाद्दुर्लभत्वान्निजान्धसः ।
अतृप्तोऽर्णवलेखाया इवाभूज्जाठरोऽनलः
10
Keep
न कदाचन सा तृप्तिमुपयाता महोदरी ।
वडवानलजिह्वेव चिन्तयामास चैकदा
11
Keep
जम्बूद्वीपगतान्सर्वान्निगिरामि जनान्यदि ।
अनारतमनुश्वासं जलराशिमिवार्णवः
12
Keep
मेघेन मृगतृष्णेव तन्मे क्षुदुपशाम्यति ।
अविरुद्धैव सा युक्तिर्ययापदि हि जीव्यते
13
Keep
मन्त्रौषधतपोदानदेवपूजादिरक्षितम् ।
सममेव जनं सर्वं निर्बाधं कः प्रबाधते
14
Keep
तपः करोमि परममखिन्नेनैव चेतसा ।
तपसैव महोग्रेण यद्दुरापं तदाप्यते
15
Keep
इति संचिन्त्य सा सर्वजन्तुजातजिघांसया ।
तपोर्थमथ सस्मार पर्वतं भूतदुर्गमम्
16
Keep
आरुरोह च तच्छृङ्गं स्थिरविद्युद्विलोचना ।
हस्तपादादिमद्देहा श्यामलेवाभ्रमण्डली
17
Keep
तत्र गत्वाथ सा स्नात्वा तपः कर्तुं कृतस्थितिः ।
अतिष्ठदेकपादेन चन्द्रार्कास्पन्दलोचना
18
Keep
क्रमेण दिवसाः पक्षास्तस्या मासर्तवो ययुः ।
शीतातपेषु लीनायाः कृताया इव शैलतः
19
Keep
सा बभूवाभ्रमालायाः समासं स्तम्भिताकृतिः ।
कृष्णोर्ध्वगोर्ध्वकेशी च खमाहर्तुमिवोद्गता
3-2
Keep
आलोक्य तां पवनजर्जरिताङ्गकत्वक्
चीराङ्गणाकृतिरणत्पवनावधूतैः ।
ऊर्ध्वस्थमूर्धजतमःपटलैर्दधानां
तारोघमौक्तिकमजः समुपाजगाम
Previous
←
Sarga 67
Next
Sarga 69
→