Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 69
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
अथ वर्षसहस्रेण तां पितामह आययौ ।
दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः
2
Keep
मनसैव प्रणम्यैनं सा तथैव स्थिता सती ।
को वरः क्षुच्छमायालमिति चिन्तान्विताभवत्
3
Keep
आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम् ।
अनायसी चायसी च स्यामहं जीवसूचिका
4
Keep
अस्योक्त्या द्विविधा सूचिर्भूत्वालक्ष्या विशाम्यहम् ।
प्राणिनां सह सर्वेषां हृदयं सुरभिर्यथा
5
Keep
यथाभिमतमेतेन ग्रसेयं सकलं जगत् ।
क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम्
6
Keep
इति संचिन्तयन्तीं तामुवाच कमलालयः ।
अन्यादृश्यास्तथा दृष्ट्वा स्तनिताभ्रारवोपमम्
7
Keep
ब्रह्मोवाच ।
पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके ।
उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम्
8
Keep
कर्कट्युवाच ।
भगवन्भूतभव्येश स्यामहं जीवसूचिका ।
अनायसी चायसी च विधेऽर्पयसि चेद्वरम्
9
Keep
एवमस्त्विति तामुक्त्वा पुनराह पितामहः ।
सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका
10
Keep
सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि ।
दुर्भोजना दुरारम्भा मूर्खा दुःस्थितयश्च ये
11
Keep
दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि ।
प्रविश्याऽऽहृदयं प्राणैः पद्मप्लीहादिबाधनात्
12
Keep
वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका ।
सगुणं विगुणं चैव जनमासादयिष्यसि
13
Keep
गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते ।
ब्रह्मोवाच ।
हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी
14
Keep
विषूचिकाभिधाना सा नाम्नाप्यन्यायबाधिका ।
तस्या मन्त्रः ।
'ॐह्रींह्रांरींरां विष्णुशक्तये नमः ।
ॐनमो भगवति विष्णुशक्तिमेनां ॐहरहर नयनय पचपच
मथमथ उत्सादय दूरेकुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलगतोऽसि स्वाहा ।
'
इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेदातुराकारं तेन हस्तेन संयुतः
15
Keep
हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् ।
कर्कटीकर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम्
16
Keep
आतुरं चिन्तयेच्चन्द्रे रसायनहृदि स्थितम् ।
अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः
17
Keep
साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः ।
क्रमेणानेन सकलां प्रोच्छिनत्ति विषूचिकाम्
18
Keep
इति गगनगतस्त्रिलोकनाथो
गगनगसिद्धग्रहीतसिद्धमन्त्रः ।
गत उपगतशक्रवन्द्यमानो
निजपुरमक्षयमायमुज्ज्वलश्रीः
Previous
←
Sarga 68
Next
Sarga 70
→