Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 98
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
यतःकुतश्चिदुत्पन्नं चित्तं यत्किंचिदेव हि ।
नित्यमात्मविमोक्षाय योजयेद्यत्नतोऽनघ
2
Keep
संयोजितं परे चित्तं शुद्धं निर्वासनं भवेत् ।
ततस्तु कल्पनाशून्यमात्मतां याति राघव
3
Keep
चित्तायत्तमिदं सर्वं जगत्स्थिरचरात्मकम् ।
चित्ताधीनवतो राम बन्धमोक्षावपि स्फुटम्
4
Keep
अत्रार्थे कथ्यमानं मे चित्ताख्यानमनुत्तमम् ।
ब्रह्मणा यत्पुरा प्रोक्तं श्रृणु रामातियत्नतः
5
Keep
अस्ति रामाटवी स्फारा शून्याशान्तातिभीषणा ।
योजनानां शतं यस्यां लक्ष्यते कणमात्रकम्
6
Keep
तस्यामेको हि पुरुषः सहस्रकरलोचनः ।
पर्याकुलमतिर्भीमः संस्थितो वितताकृतिः
7
Keep
स सहस्रेण बाहूनामादाय परिघान्बहून् ।
प्रहरत्यात्मनः पृष्ठे स्वात्मनैव पलायते
8
Keep
दृढप्रहारैः प्रहरन्स्वयमेवात्मनात्मनि ।
प्रविद्रवति भीतात्मा स योजनशतान्यपि
9
Keep
क्रन्दन्पलायमानोऽसौ गत्वा दूरमितस्ततः ।
श्रमवान्विवशाकारो विशीर्णचरणाङ्गकः
10
Keep
पतितोऽवश एवाशु महत्यन्धोऽन्धकूपके ।
कृष्णरात्रितमोभीमे नभोगम्भीरकोटरे
11
Keep
ततः कालेन बहुना सोऽन्धकूपात्समुत्थितः ।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः
12
Keep
पुनर्दूरतरं गत्वा करञ्जवनगुल्मकम् ।
प्रविष्टः कण्टकव्याप्तं शलभः पावकं यथा
13
Keep
तस्मात्करञ्जगहनाद्विनिःसृत्य क्षणादिव ।
पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः
14
Keep
पुनर्दूरतरं गत्वा शशाङ्ककरशीतलम् ।
कदलीकाननं कान्तं संप्रविष्टो हसन्निव
15
Keep
कदलीखण्डकात्तस्माद्विनिःसृत्य क्षणात्पुनः ।
स्वयं प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनि
16
Keep
पुनर्दूरतरं गत्वा तमेवान्धोऽन्धकूपकम् ।
स संप्रविष्टस्त्वरया विशीर्णावयवाकृतिः
17
Keep
अन्धकूपात्समुत्थाय प्रविष्टः कदलीवनम् ।
कदलीकाननाच्छ्वभ्रं करञ्जवनगुल्मकम्
18
Keep
करञ्जकाननात्कूपं कूपाद्रम्भावनान्तरम् ।
प्रविशन्प्रहरंश्चैव स्वयमात्मनि संस्थितः
19
Keep
एवंरूपनिजाचारः सोऽवलोक्य चिरं मया ।
अवष्टभ्य बलादेव मुहूर्तं रोधितः पथि
20
Keep
पृष्टः स कस्त्वं किमिदं केनार्थेन करोषि वा ।
किं नामाभिमतं तेऽत्र किं मुधा परिमुह्यसि
21
Keep
इति पृष्टेन कथितं तेन मे रघुनन्दन ।
नाहं कश्चिन्न चैवेदं मुने किंचित्करोम्यहम्
22
Keep
त्वयाहमवभग्नोऽस्मि त्वं मे शत्रुरहो वत ।
त्वया दृष्टोऽस्मि नष्टोऽस्मि दुःखाय च सुखाय च
23
Keep
इत्युक्त्वा विक्लवान्यङ्गान्यालोक्य स्वान्यतुष्टिमान् ।
रुरोदातिरवं दीनो मेघो वर्षन्निवाटवीम्
24
Keep
क्षणमात्रेण तत्रासावुपसंहृत्य रोदनम् ।
स्वान्यङ्गानि समालोक्य जहास च ननाद च
25
Keep
अथाट्टहासपर्यन्ते स पुमान्पुरतो मम ।
क्रमेण तानि तत्याज स्वान्यङ्गानि समंततः
26
Keep
प्रथमं पतितं तस्य शिरः परमदारुणम् ।
ततस्ते बाहवः पश्चाद्वक्षस्तदनु चोदरम्
27
Keep
अथ क्षणेन स पुमांस्तान्यङ्गानि यथाक्रमम् ।
संत्यज्य नियतेः शक्त्या क्वापि गन्तुमुपस्थितः
28
Keep
दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् ।
सोऽपि प्रहारान्परितः प्रयच्छन्स्वयमात्मनि
29
Keep
बाहुभिः पीवराकारैः स्वयमेव पलायते ।
कूपे पतति कूपात्तु समुत्थायाभिधावति
30
Keep
पुनः पतति कुण्डेऽन्तः पुनरार्तः पलायते ।
पुनः प्रविशति श्वभ्रं क्षणं शिशिरकाननम्
31
Keep
कष्टं पुनःपुनस्तुष्टः पुनः प्रहरति स्वयम् ।
एवंप्रायनिजाचारश्चिरमालोक्य सस्मयम्
32
Keep
स मया समवष्टभ्य परिपृष्टस्तथैव हि ।
तेनैवासौ क्रमेणाद्य रुदित्वा संप्रहस्य च
33
Keep
अङ्गैर्विशीर्णतामेत्य ययावलमलक्ष्यताम् ।
विचार्य नियतेः शक्तिं ततो गन्तुमुपस्थितः
34
Keep
दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् ।
प्रहरंस्तद्वदेवासौ स्वयमेव पलायते
35
Keep
पलायमानः पतितो महत्यन्धेऽन्धकूपके ।
तत्राहं सुचिरं कालमवसं तत्प्रतीक्षकः
36
Keep
यावत्स सुचिरेणापि कूपान्नाभ्युदितः शठः ।
अथाहमुत्थितो गन्तुं दृष्टवान्पुरुषं पुनः
37
Keep
तादृशं तादृशाकारं प्रपतन्तं तथैव च ।
अवष्टभ्य तथैवाशु तस्य प्रोक्तं पुनर्मया
38
Keep
तथैवोत्पलपत्राक्ष नासौ तदवबुद्धवान् ।
केवलं मामसौ मूढो नैव जानासि किंचन
39
Keep
आः पाप दुर्द्विजेत्युक्त्वा स्वव्यापारपरो ययौ ।
अथ तस्मिन्महारण्ये तथा विहरता मया
40
Keep
बहवस्तादृशा दृष्टाः पुरुषा दोषकारिणः ।
मत्पृष्टाः केचिदायान्ति स्वप्नसंभ्रमवच्छमम्
41
Keep
मदुक्तं नाभिनन्दन्ति केचिच्छवतनुं यथा ।
विनिपत्यान्धकूपेभ्यः केचित्तत्प्रोत्थिताः पुनः
42
Keep
कदलीखण्डकात्केचिच्चिरेणापि न निर्गताः ।
केचिदन्तर्हिताः स्फारे करञ्जवनगुल्मके
43
Keep
न क्वचित्स्थितिमायान्ति केचिद्धर्मपरायणाः ।
एवंविधा सा वितता रघूद्वह महाटवी
44
Keep
अद्यापि विद्यते यस्यामित्थं ते पुरुषाः स्थिताः ।
सा च दृष्टा त्वया राम त्वयेह व्यवहारिणी ।
बाल्यात्तु बुद्धितत्त्वस्य न तां स्मरसि राघव
45
Keep
सा भीषणा विविधकण्टकसङ्कटाङ्गी
घोराटवी घनतमोगहनापि लोके ।
आगत्य निर्वृतिमलब्धपरावबोधै-
रासेव्यते कुसुमगुल्मकवाटिकेव
Previous
←
Sarga 97
Next
Sarga 99
→