Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 99
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 3 — Utpatti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
कासौ महाटवी ब्रह्मन्कदा दृष्टा कथं मया ।
के च ते पुरुषास्तत्र किं तत्कर्तुं कृतोद्यमाः
2
Keep
रघुनाथ महाबाहो श्रृणु वक्ष्यामि तेऽखिलम् ।
न सा महाटवी राम दूरे नैव च ते नराः
3
Keep
येयं संसारपदवी गम्भीराऽपारकोटरा ।
तां तां शून्यां विकाराढ्यां विद्धि राम महाटवीम्
4
Keep
विचारालोकलभ्येयं यदैकेनैव वस्तुना ।
पूर्णा नान्येन संयुक्ता केवलेव तदैव सा
5
Keep
तत्र ये ते महाकाराः पुरुषाः प्रभ्रमन्ति हि ।
मनांसि तानि विद्धि त्वं दुःखे निपतितान्यलम्
6
Keep
द्रष्टा योऽयमहं तेषां सविवेको महामते ।
विवेकेन मया तानि दृष्टान्यन्येव नानघ
7
Keep
मया तान्येव बोध्यन्ते विवेकेन मनांसि हि ।
सततं सुप्रकाशेन कमलानीव भानुना
8
Keep
मत्प्रबोधं समासाद्य मत्प्रसादान्महामते ।
मनांसि कानि चित्तानि गतान्युपशमात्परम्
9
Keep
कानिचिन्नाभिनन्दन्ति मां विवेकं विमोहतः ।
मत्तिरस्कारवशतः कूपेष्वेव पतन्त्यधः
10
Keep
ये तेऽन्धकूपा गहना नरकास्ते रधूद्वह ।
कदलीकाननं यानि संप्रविष्टानि तानि तु
11
Keep
स्वर्गैकरसिकानि त्वं मनांसि ज्ञातुमर्हसि ।
प्रविष्टान्यन्धकूपान्तर्निर्गतानि न यानि तु
12
Keep
महापातकयुक्तानि तानि चित्तानि राघव ।
कदलीकाननस्थानि निर्गतानि न यानि तु
13
Keep
पुण्यसंभारयुक्तानि तानि चित्तानि राघव ।
करञ्जवनयातानि निर्गतानि न यानि तु
14
Keep
तानि मानुष्यजातानि चित्तानि रघुनन्दन ।
कानिचित्संप्रबुद्धानि तत्र मुक्तानि बन्धनात्
15
Keep
कानिचिद्बहुरूपाणि योनेर्योनिं विशन्ति हि ।
मनांसि तानि तिष्ठन्ति निपतन्त्युत्पतन्ति च
16
Keep
यत्तत्करञ्जगहनं तत्कलत्ररसं विदुः ।
दुःखकण्टकसंबाधं मानुष्यं विविधैषणम्
17
Keep
करञ्जगहनं यानि प्रविष्टानि मनांसि तु ।
मानुष्ये तानि जातानि तत्रैव रसिकानि च
18
Keep
कदलीकाननं यत्तच्छशाङ्ककरशीतलम् ।
तन्मनोह्लादनकरं स्वर्गं विद्धि रघूद्वह
19
Keep
कानिचित्पुण्यभूतेन तपसा धारणात्मना ।
धारयन्ति शरीराणि संस्थितान्युदितान्यपि
20
Keep
यैरहं पुंभिरबुधैर्बुद्धिचित्ततिरस्कृतः ।
तैर्मनोभिरनात्मज्ञैः स्वविवेकस्तिरस्कृतः
21
Keep
त्वया दृष्टो विनष्टोऽस्मि त्वं मे शत्रुरिति द्रुतम् ।
यदुक्तं तद्धि चित्तेन गलता परिदेवितम्
22
Keep
रुदितं यन्महाक्रन्दं पुंसा बह्नाशु राघव ।
तद्भोगजालं त्यजता मनसा रोदनं कृतम्
23
Keep
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।
चेतसस्त्यजतो भोगान्परितापो भृशं भवेत्
24
Keep
रुदताङ्गानि दृष्टानि कारुण्येनावबोधिना ।
कष्टमेतानि संत्यज्य किं प्रयामीति चेतसा
25
Keep
अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् ।
चेतसस्त्यजतोऽङ्गानि परितापो हि वर्धते
26
Keep
हसितं तु यदानन्दि पुंसा मदवबोधतः ।
परिप्राप्तविवेकेन तत्तुष्टं राम चेतसा
27
Keep
परिप्राप्तविवेकस्य त्यक्तसंसारसंस्थितेः ।
चेतसस्त्यजतो रूपमानन्दो हि विवर्धते
28
Keep
हसताङ्गानि दृष्टानि पुंसा यान्युपहासतः ।
तानि दृष्टानि मनसा विप्रलम्भपदानि ह
29
Keep
मिथ्याविकल्परचितैर्विप्रलब्धमहो चिरम् ।
इत्यङ्गान्युपहासेन दृष्टानि स्वानि चेतसा
30
Keep
मनः प्राप्तविवेकं हि विश्रान्तं वितते पदे ।
प्राक्तनादीनताधारं हसन्पश्यति दूरतः
31
Keep
यदसौ समवष्टभ्य मया पृष्टः प्रयत्नतः ।
तद्विवेको बलाच्चित्तमादत्त इति दर्शितम्
32
Keep
यदङ्गानि विशीर्णानि गतान्यन्तर्धिमग्रतः ।
तच्चित्तेन विनार्थाशा शाम्यतीति प्रदर्शितम्
35
Keep
सहस्रनेत्रहस्तत्वं यत्पुंसः परिवर्णितम् ।
तदनन्ताकृतित्वं हि चेतसः परिदर्शितम्
34
Keep
यदात्मनि प्रहारौघैः पुमान्प्रहरति स्वयम् ।
तत्तत्कुकल्पनाघातैः प्रहरत्यात्मनो मनः
35-2
Keep
पलायते यत्पुरुषः स्वात्मनः प्रहरन्स्वयम् ।
स्ववासनाप्रहारेभ्यस्तन्मनः प्रपलायते
36
Keep
स्वयं प्रहरति स्वान्तं स्वयमेव स्वयेच्छया ।
पलायते स्वयं चैव पश्याज्ञानविजृम्भितम्
37
Keep
स्ववासनोपतप्तानि सर्वाण्येव मनांसि हि ।
स्वयमेव पलायन्ते गन्तुं युक्तानि तत्पदम्
38
Keep
यदिदं विततं दुःखं तत्तनोति स्वयं मनः ।
स्वयमेवातिखिन्नं तु पुनस्तस्मात्पलायते
39
Keep
संकल्पवासनाजालैः स्वयमायाति बन्धनम् ।
मनो लालामयैर्जालैः कोशकारकृमिर्यथा
40
Keep
यथानर्थमवाप्नोति तथा क्रीडति चञ्चलम् ।
भाविदुःखमपश्यन्स्वं दुर्लीलाभिरिवार्भकः
41
Keep
अपश्यन्काष्ठरन्ध्रस्थवृषणाक्रमणं यथा ।
कीलोत्पाटी कपिर्दुःखमेतीदं हि तथा मनः
42
Keep
चिरपालनया चैव चिरभावनया तथा ।
अभ्यासात्तुच्छतामेत्य न भूयः परिशोचति
43
Keep
मनःप्रमादाद्वर्धन्ते दुःखानि गिरिकूटवत् ।
तद्वशादेव नश्यन्ति सूर्यस्याग्रे हिमं यथा
44
Keep
यावज्जीवमनिन्द्यया च रमते शास्त्रार्थसंजातया
तुल्यं वासनया मनो हि मुनिवन्मौनेन रागादिषु ।
पश्चात्पावनपावनं पदमजं तत्प्राप्य तच्छीतलं
तत्संस्थेन न शोच्यते पुनरलं पुंसा महापत्स्वपि
Previous
←
Sarga 98
Next
Sarga 100
→