Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 1
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथोत्पत्तिप्रकरणादनन्तरमिदं श्रृणु ।
स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत्
2
Keep
एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् ।
अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम्
3
Keep
अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।
अद्रष्टृकं चानुभवमनिद्रं स्वप्नदर्शनम्
4
Keep
भविष्यत्पुरनिर्माणं चित्तसंस्थमिवोदितम् ।
मर्कटानलतापान्तमसदेवार्थसाधकम्
5
Keep
ब्रह्मण्यनन्यदन्याभमम्ब्वावर्तवदास्थितम् ।
सद्रूमपि निःशून्यं तेजः सौरमिवाम्बरे
6
Keep
रत्नाभापुंजमिव खे दृश्यमानमभित्तिमत् ।
गन्धर्वाणां पुरमिव दृश्यं नित्यमभित्तिमत्
7
Keep
मृगतृष्णाम्ब्विवासत्यं सत्यवत्प्रत्ययप्रदम् ।
संकल्पपुरवत्प्रौढमनुभूतमसन्मयम्
8
Keep
कथार्थप्रतिभानात्म न क्वचित्स्थितमस्थितम् ।
निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम्
9
Keep
भूताकाशमिवाकारभासुरं शून्यमात्रकम् ।
शरदभ्रमिवाग्रस्थमलमक्षयमक्षतम्
10
Keep
वर्णो व्योममलस्येव दृश्यमानमवस्तुकम् ।
स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम्
11
Keep
चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति ।
प्रकाशमपि निस्तेजश्चित्रार्कानलवत्स्थितम्
12
Keep
अनुभूतं मनोराज्यमिवासत्यमवास्तवम् ।
चित्रपद्माकर इव सारसौगन्ध्यवर्जितम्
13
Keep
शून्ये प्रकचितं नानावर्णमाकारितात्मकम् ।
अपिण्डग्रहमाशून्यमिन्द्रचापमिवोत्थितम्
14
Keep
परामर्शेन शुष्यद्भिर्भूतपेलवपल्लवैः ।
कृतं जडमसारात्म कदलीस्तम्भभासुरम्
15
Keep
स्फुरितेक्षणदृष्टान्धकारचक्रकवर्तनम् ।
अत्यन्तमभवद्रूपमपि प्रत्यक्षवत्स्थितम्
16
Keep
वार्बुद्बुदमिवाभोगि शून्यमन्तःस्फुरद्वपुः ।
रसात्मकं चाप्यरसमविच्छिन्नक्षयोदयम्
17
Keep
नीहार इव विस्तारि गृहीतं सन्न किंचन ।
जडशून्यास्पदं शून्यं केषांचित्परमाणुवत्
18
Keep
किंचिद्भूतमयोऽस्मीति स्थितं शून्यमभूतकम् ।
गृह्यमाणोऽप्यसद्रूपो निशाचर इवास्थितम्
19
Keep
महाकल्पक्षये दृश्यमास्ते बीज इवाङ्कुरः ।
परे भूय उदेत्येतत्तत एवेति किं वद
20
Keep
एवं बोधाः किमज्ञाः स्युरुत ज्ञा इति च स्फुटम् ।
यथावद्भगवन्ब्रूहि सर्वसंशयशान्तये
21
Keep
इदं बीजेऽङ्कुर इव दृश्यमास्ते महाशये ।
ब्रूते य एवमज्ञत्वमेतत्तस्यास्ति शैशवम्
22
Keep
श्रृण्वेतत्किमसंबन्धं कथमेतदवास्तवम् ।
विपरीतो बोध एष वक्तुः श्रोतुश्च मोहकृत्
23
Keep
बीजे किलाङ्कुर इव जगदास्त इतीह या ।
बुद्धिः सा सत्प्रलापार्थं मूढा श्रृणु कथं किल
24
Keep
बीजं भवेत्स्वयं दृश्यं चित्तादीन्द्रियगोचरम् ।
यवधानादिधान्यानि युक्तः पत्राङ्कुरोद्भवः
25
Keep
मनःषष्ठेन्द्रियातीतं यत्स्यादतितरामणु ।
बीजं तद्भवितुं शक्तं स्वयंभूर्जगतां कथम्
26
Keep
आकाशादपि सूक्ष्मस्य परस्य परमात्मनः ।
सर्वाख्यानुपलम्भस्य कीदृशी बीजता कथम्
27
Keep
तत्सूक्ष्ममसदाभासमसदेव ह्यतादृशम् ।
कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः
28
Keep
गगनाङ्गादपि स्वच्छे शून्ये तत्र परे पदे ।
कथं सन्ति जगन्मेरुसमुद्रगगनादयः
29
Keep
न किंचिद्यत्कथं किंचित्तत्रास्ते वस्तु वस्तुनि ।
अस्ति चेत्तत्कथं तत्र विद्यमानं न दृश्यते
30
Keep
न किंचिदात्मनः किंचित्कथमेति कुतोऽथवा ।
शून्यरूपाद्धटाकाशाज्जातोऽद्रिः क्व कुतः कदा
31
Keep
प्रतिपक्षे कथं किंचिदास्ते च्छायातपे यथा ।
कथमास्ते तमो भानौ कथमास्ते हिमोऽनले
32
Keep
मेरुरास्ते कथमणौ कुतः किंचिदनाकृतौ ।
तदतद्रूपयोरैक्यं क्व च्छायातपयोरिव
33
Keep
साकारवटधानादावङ्कुराः सन्ति युक्तिमत् ।
नाकारे तन्महाकारं जगदस्तीत्ययुक्तिकम्
34
Keep
देशान्तरे यच्च नरान्तरे च
बुद्ध्यादिसर्वेन्द्रियशक्ति दृश्यम् ।
नास्त्येव तत्तद्विधबुद्धिबोधे
न किंचिदित्येव तदुच्यते च
35
Keep
कार्यस्य तत्कारणतां प्रयातं
वक्तीति यस्तस्य विमूढबोधः ।
कैर्नाम तत्कार्यमुदेति तस्मा-
त्स्वैः कारणाद्यैः सहकारिरूपैः
36
Keep
दुर्बुद्धिभिः कारणकार्यभावं
संकल्पितं दूरतरे व्युदस्य ।
तदेव तत्सत्यमनादिमध्यं
जगत्तदेतत्स्थितमित्यवेहि
Previous
←
Sarga 122
Next
Sarga 2
→