Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 2
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथैतदभ्युपगमे वच्मि वेद्यविदां वर ।
समस्तकलनातीते महाचिद्व्योम्नि निर्मले
2
Keep
जगदाद्यङ्कुरस्तत्र यद्यस्ति तदसौ तदा ।
कैरिवोदेति कथय कारणैः सहकारिभिः
3
Keep
सहकारिकारणानामभावे त्वङ्कुरोद्गतिः ।
वन्ध्याकन्येव दृष्टेह न कदाचन केनचित्
4
Keep
सहकारिकारणानामभावे यद्यवोदितम् ।
मूलकारणमेवाङ्ग तत्स्वभावस्थितिं गतम्
5
Keep
सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति ।
यथास्थितमनाकारं क्व जन्यजनकक्रमः
6
Keep
अथ पृथ्व्यादयोऽन्ये वा केचिदत्रोपकुर्वते ।
सहकारिकारणत्वं तत्पूर्वं चात्र दूषणम्
7
Keep
तस्मात्पदे जगच्छान्तमास्ते तत्सहकारिभिः ।
चित्तात्प्रसरतीत्युक्तिर्वालस्य न विपश्चितः
8
Keep
तस्माद्राम जगन्नासीन्न चास्ति न भविष्यति ।
चेतनाकाशमेवाशु कचतीत्थमिवात्मनि
9
Keep
अत्यन्ताभाव एवास्य जगतो विद्यते यदा ।
तदा ब्रह्मेदमखिलमिति तद्राम नान्यथा
10
Keep
पूर्व प्रध्वंसनान्योन्याभावैर्यदुपशाम्यति ।
न शाम्यत्येव तच्चित्ते शाम्यत्येव तु दृश्यते
11
Keep
अत्यन्ताभाव एवास्य भावैर्यदुपशाम्यति ।
न शाम्यत्येव सच्चित्ते क्व शाम्यत्येव दृश्यता
12
Keep
अत्यन्ताभाव एवातो जगद्दृश्यस्य सर्वथा ।
वर्जयित्वेतरा युक्तिर्नास्त्येवानर्थसंक्षये
13
Keep
चिदाकाशस्य बोधोऽयं जगद्भातीति यत्स्थितम् ।
अयं सोऽहमिदं नाहं लोके चित्रकथा यथा
14
Keep
इदमद्यादि पृथ्व्यादि तथेदं वत्सरादि च ।
अयं कल्पः क्षणश्चायमिमे मरणजन्मनी
15
Keep
अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः ।
अयं स सर्गप्रारम्भो भाव्यभावक्रमस्त्वसौ
16
Keep
लक्ष्माणीमानि कल्पानामिमा ब्रह्माण्डकोटयः ।
एते चेमे परिगता इमे भूय उपागताः
17
Keep
इमानि धिष्ण्यजालानि देशकालकला इमाः ।
महाचित्परमाकाशमनावृतमनन्तकम्
18
Keep
यथापूर्वं स्थितं शान्तमित्येवं कचति स्वयम् ।
परमाणुसहस्रांशुभास एता महाचितेः
19
Keep
स्वयमन्तश्चमत्कारो यः समुद्गीर्यते चिता ।
तत्सर्गभानं भातीदमरूपं नतु भित्तिमत्
20
Keep
नोद्यन्ति नच नश्यन्ति नायान्ति नच यान्ति च ।
महाशिलासु लेखानां सन्निवेशा इवाचलाः
21
Keep
इमे सर्गाः प्रस्फुरन्ति स्वात्मनात्मनि निर्मले ।
नभसीव नभोभागा निराकारा निराकृतौ
22
Keep
द्रवत्वानीव तोयस्य स्पन्दा इव सदागतौ ।
आवर्ता इव चाम्भोधेर्गुणिनो वा यथा गुणाः
23
Keep
विज्ञानघनमेवैकमिदमेवमवस्थितम् ।
सोदयास्तमयारम्भमनन्तं शान्तमाततम्
24
Keep
सहकार्यादिहेतूनामभावे शून्यतो जगत् ।
स्वयंभूर्जायते चेति किलोन्मत्तकफूत्कृतम्
25
Keep
प्रशान्तसर्वार्थकलाकलङ्को
निरस्तनिःशेषविकल्पतल्पः ।
चिराय विद्रावितदीर्घनिद्रो
भवाभयो भूषितभूः प्रबुद्धः
Previous
←
Sarga 1
Next
Sarga 3
→